Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
१५२
तत्त्वन्यायविभाकरे व्यवधानक्रियाकर्तुत्वं न स्यात्तस्य, न च यत्कार्यद्रव्यं न तत्तैजसेन प्रकाशेन विरुध्यते, विरुध्यते च तमः, ततो न द्रव्यकार्यं तदिति वाच्यम्, तेजःप्रकाश-योरेकत्वेनाभ्युपगमात्, जलादिद्रव्यस्य च तद्विरोधकत्वेनोक्तहेतोरसिद्धत्वात् । न च तेजःप्रकाशयोरेकत्वं न सम्भवति, धाराधरे निरन्तरधारं वर्षत्यलिन्दकादिप्रतिष्ठापितेन प्रदीपेन बहिरपि प्रद्योतनात्, अन्यथा जलपातेन प्रशान्ततया बहिःप्रकाशो न दृश्येतेति वाच्यं, तथा विधत्वमपरित्यजतां प्रदीपसम्बन्धिनां पुद्गलानां जलबिन्दुसम्पर्केण तथाविधत्वपरित्यागात् तत्समकालमेव प्रदीपशिखया विकीर्णानां कृशानुपुद्गलानामपरेषां तदाकाशदेशप्राप्तेः तेषाञ्च परिणामविशेषतो वडवानलावयवानामिव जलपातेन शमयितुमशक्यत्वात्, तथा च परिणामवैचित्र्यात् पुद्गलानां विरोधाविरोधपरिणामभाक्त्वेन नास्माकं कश्चन विरोध इति । एवमुद्योतोऽपि चन्द्रग्रहनक्षत्रादीनां शीतप्रकाशः, स आह्लादकत्वात् प्रकाशकत्वाच्च जलाग्न्योरिव मूर्त्तद्रव्यपरिणाम एव, पद्मरागादीनां प्रकाशोऽप्युद्योतोऽनुष्णाशीत-त्वात्पुद्गलपरिणामः । प्रभा च सूर्याचन्द्रमसोस्तेजस्विपुद्गलानाञ्च प्रकाशरश्मिभ्यो निर्यदुपप्रकाशः सोऽपि विरलप्रकाशरूपत्वात् पुद्गलपरिणाम एव । एवं छायापि द्रव्यं क्रियावत्त्वाद्धटवत् छाया गच्छतीति प्रत्ययात्तस्य क्रियावत्त्वम् । देशाद्देशान्तरप्राप्त्युपल-म्भतोऽपि तत्सिद्धेः । न च वारकद्रव्येण तेजसः सान्निध्यनिषेधे वारकद्रव्यगतक्रियायाः तेजोऽभावरूपायां छायायामारोपेण छाया गच्छतीति व्यवहार इति वाच्यम्, मुख्यक्रियाया बाधाभावे आरोपासंभवात्, तस्या गतिमत्त्वे बाधकाभावात्, एवं शिशिरत्वादाप्यायकत्वाच्च जलवातादिवद् द्रव्यत्वसिद्धेः एवमातपोऽपि दिवाकरविमानात्स्वभावतः शीतलादपि समुपजायमान उष्णप्रकाशरूप: पुद्गलपरिणाम एव तापजनकत्वात्, स्वेदहेतुत्वादुष्णत्वात्कृशानुवदिति ॥
હવે પુદ્ગલોના કેવલ સ્પર્શ આદિ જ ધર્મો (ગુણો) છે, બીજા નથી એમ નહિ. પરંતુ શબ્દ આદિ પણ पुगताना धर्मो (पर्यायो) छ. ते वस्तुने ४ छ :
ભાવાર્થ- શબ્દ-અંધકાર-ઉદ્યોત-પ્રભા-છાયા-આતપ આદિ રૂપ પરિણામ (પર્યાય)વાળો પરમાણુ રૂપ पुल छे.
વિવેચન- શબ્દ, પ્રત્યેક અર્થમાં નિયત અને સંગત એવા વર્ણ આદિ રૂપ વિભાગવાળો ધ્વનિ, એ 'श६.'
१. उत्पत्तिस्थानस्थानामेव प्रदीपपुद्गलानां जलेन विरोधो, न ततो बहिनिस्सृतानामिति स्याद्विरोधस्स्यादविरोधश्चेति भावः ।