Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 668
________________ सूत्र - १५, नवमः किरणः ६३१ सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावत्प्राप्यते, मोहनीयायुःकर्मद्वयस्याबन्धक त्वात्तस्य, उत्कृष्टयोगेनैवोत्कृष्टप्रदेशबन्धलाभादुत्कृष्टयोगस्य, उत्कृष्टयोगावस्थानकालस्य तावन्मानत्वादेकद्विसमयस्यात्रग्रहणम् । तथाचोत्कृष्टं प्रदेशबन्धं विधायोपशान्तमोहावस्थाञ्चारुह्य पुनः प्रतिपत्योत्कृष्टयोगाद्वाऽस्मादेव प्रतिपत्य यदा पुनरनुत्कृष्टप्रदेशबन्धं करोति तदाऽसौ सादिः । एतत्स्थानमप्राप्तपूर्वाणामनादिनिरन्तरं बध्यमानत्वात् । ध्रुवोऽभव्यानां भव्यानां त्वध्रुव इति । जघन्येऽजघन्ये उत्कृष्टे च साद्यध्रुवलक्षणो द्विप्रकारो बन्धः । उपरि वणितस्सूक्ष्मसम्पराय उत्कृष्टप्रदेशबन्धस्सादिस्तत्प्रथमतया बध्यमानत्वात् । उपशान्ताद्यवस्थायां पुनरनुत्कृष्टबन्धगमने च स नावश्यं भवतीत्युध्रुवः । जघन्यः पुनरमीषां षट्कर्मणां प्रदेशबन्धोऽपर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधबन्धकस्य सूक्ष्मनिगोदस्य भवाद्यसमये लभ्यते, द्वितीयादिसमये त्वसंख्येयगुणवृद्धेन वीर्येणास्य वर्धमानत्वात्, द्वितीयादिसमयेष्वयमप्यजघन्यं बध्नाति, पुनस्संख्यातेनासंख्यातेन वा कालेन पूर्वोक्तजघन्ययोगं प्राप्य स एव जघन्यप्रदेशबन्धं करोति पुनरप्यजघन्यमित्येवं जघन्याजघन्ययोः प्रदेशबन्धयोस्संसरतामसुमतां द्वावपि साद्यध्रुवौ भवतः । मोह आयुषि च चतुर्विधे प्रदेशबन्धे साद्यध्रुवलक्षणो द्विविधो बन्धो भवति । मिथ्यादृष्टिस्सम्यग्दृष्टिर्वाऽनिवृत्तिबादरान्तस्सप्तविधबन्धकाल उत्कृष्टयोगे वर्तमानो मोहनीयस्योत्कृष्टप्रदेशबन्धं, पुनरनुत्कृष्टयोगं प्राप्यानुत्कृष्टं प्रदेशबन्धं करोति पुनरुत्कृष्टं पुनरप्यनुत्कृष्टमित्येवमुत्कृष्टानुत्कृष्टप्रदेशयोस्संसरतां जन्तूनां द्वावपि बन्धौ साद्यध्रुवौ भवतः, जघन्याजघन्यौ त्वेतत्प्रदेशबन्धौ सूक्ष्मनिगोदादिषु संसरतामसुमतां कर्मषट्कनिरूपण उपर्येव भावितौ तद्वदेवात्रापि । आयुष्कस्य त्वध्रुवबंधित्वादेव तत्प्रदेशबन्ध उत्कृष्टादिचतुर्विकल्पोऽपि साद्यध्रुव एव भवतीति, एवंरूपेण कर्मपुद्गलानामेव प्रकृतिस्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव यद्ग्रहणं करोति स प्रदेशबन्धो विज्ञेयः । तत्र योगस्थानानि कारणं प्रकृतयः प्रदेशाश्च तत्कार्यं, स्थितिबन्धाध्यवसायस्थानानि कारणं स्थितिविशेषास्तत्काएँ, अनुभागबन्धाध्यवसायस्थानानि कारणमनुभागस्थानानि तत्काएँ, तथा प्रकृतिप्रदेशबन्धयोर्योग एव प्रधानं कारणं, मिथ्यात्वाविरतिकषायाणामभावेऽपि उपशान्तमोहादिगुणस्थानेषु वेदनीयस्य प्रकृतिप्रदेशबन्धसद्भावात् । स्थित्यनुभागबन्धयोस्तु कषायजनितजीवाध्यवसायविशेषः कारणं तदभावे उपशान्तमोहादिषु तयोरभावात् मिथ्यात्वाविरत्यभावेऽपि प्रमत्तादौ कषायसद्भावेन तयोस्सत्त्वाच्च । मिथ्यादृष्टिगुणस्थानवर्ती मिथ्यात्वादिचतुःप्रत्ययैर्ज्ञानावरणादिकर्म सास्वादनमिश्राविरतिदेशविरतिलक्षणेषु मिथ्यात्ववजैस्त्रिभिः, प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्म

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814