________________
सूत्र - १५, नवमः किरणः
६३१ सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावत्प्राप्यते, मोहनीयायुःकर्मद्वयस्याबन्धक त्वात्तस्य, उत्कृष्टयोगेनैवोत्कृष्टप्रदेशबन्धलाभादुत्कृष्टयोगस्य, उत्कृष्टयोगावस्थानकालस्य तावन्मानत्वादेकद्विसमयस्यात्रग्रहणम् । तथाचोत्कृष्टं प्रदेशबन्धं विधायोपशान्तमोहावस्थाञ्चारुह्य पुनः प्रतिपत्योत्कृष्टयोगाद्वाऽस्मादेव प्रतिपत्य यदा पुनरनुत्कृष्टप्रदेशबन्धं करोति तदाऽसौ सादिः । एतत्स्थानमप्राप्तपूर्वाणामनादिनिरन्तरं बध्यमानत्वात् । ध्रुवोऽभव्यानां भव्यानां त्वध्रुव इति । जघन्येऽजघन्ये उत्कृष्टे च साद्यध्रुवलक्षणो द्विप्रकारो बन्धः । उपरि वणितस्सूक्ष्मसम्पराय उत्कृष्टप्रदेशबन्धस्सादिस्तत्प्रथमतया बध्यमानत्वात् । उपशान्ताद्यवस्थायां पुनरनुत्कृष्टबन्धगमने च स नावश्यं भवतीत्युध्रुवः । जघन्यः पुनरमीषां षट्कर्मणां प्रदेशबन्धोऽपर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधबन्धकस्य सूक्ष्मनिगोदस्य भवाद्यसमये लभ्यते, द्वितीयादिसमये त्वसंख्येयगुणवृद्धेन वीर्येणास्य वर्धमानत्वात्, द्वितीयादिसमयेष्वयमप्यजघन्यं बध्नाति, पुनस्संख्यातेनासंख्यातेन वा कालेन पूर्वोक्तजघन्ययोगं प्राप्य स एव जघन्यप्रदेशबन्धं करोति पुनरप्यजघन्यमित्येवं जघन्याजघन्ययोः प्रदेशबन्धयोस्संसरतामसुमतां द्वावपि साद्यध्रुवौ भवतः । मोह आयुषि च चतुर्विधे प्रदेशबन्धे साद्यध्रुवलक्षणो द्विविधो बन्धो भवति । मिथ्यादृष्टिस्सम्यग्दृष्टिर्वाऽनिवृत्तिबादरान्तस्सप्तविधबन्धकाल उत्कृष्टयोगे वर्तमानो मोहनीयस्योत्कृष्टप्रदेशबन्धं, पुनरनुत्कृष्टयोगं प्राप्यानुत्कृष्टं प्रदेशबन्धं करोति पुनरुत्कृष्टं पुनरप्यनुत्कृष्टमित्येवमुत्कृष्टानुत्कृष्टप्रदेशयोस्संसरतां जन्तूनां द्वावपि बन्धौ साद्यध्रुवौ भवतः, जघन्याजघन्यौ त्वेतत्प्रदेशबन्धौ सूक्ष्मनिगोदादिषु संसरतामसुमतां कर्मषट्कनिरूपण उपर्येव भावितौ तद्वदेवात्रापि । आयुष्कस्य त्वध्रुवबंधित्वादेव तत्प्रदेशबन्ध उत्कृष्टादिचतुर्विकल्पोऽपि साद्यध्रुव एव भवतीति, एवंरूपेण कर्मपुद्गलानामेव प्रकृतिस्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव यद्ग्रहणं करोति स प्रदेशबन्धो विज्ञेयः । तत्र योगस्थानानि कारणं प्रकृतयः प्रदेशाश्च तत्कार्यं, स्थितिबन्धाध्यवसायस्थानानि कारणं स्थितिविशेषास्तत्काएँ, अनुभागबन्धाध्यवसायस्थानानि कारणमनुभागस्थानानि तत्काएँ, तथा प्रकृतिप्रदेशबन्धयोर्योग एव प्रधानं कारणं, मिथ्यात्वाविरतिकषायाणामभावेऽपि उपशान्तमोहादिगुणस्थानेषु वेदनीयस्य प्रकृतिप्रदेशबन्धसद्भावात् । स्थित्यनुभागबन्धयोस्तु कषायजनितजीवाध्यवसायविशेषः कारणं तदभावे उपशान्तमोहादिषु तयोरभावात् मिथ्यात्वाविरत्यभावेऽपि प्रमत्तादौ कषायसद्भावेन तयोस्सत्त्वाच्च । मिथ्यादृष्टिगुणस्थानवर्ती मिथ्यात्वादिचतुःप्रत्ययैर्ज्ञानावरणादिकर्म सास्वादनमिश्राविरतिदेशविरतिलक्षणेषु मिथ्यात्ववजैस्त्रिभिः, प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्म