________________
६३०
तत्त्वन्यायविभाकरे
अथ प्रदेशबन्धमाह
प्रकृत्यादित्रयनिरपेक्षं दलिकसंख्याप्राधान्येन कर्मपुद्गलानां ग्रहणं प्रदेशबन्ध: । १५ । प्रकृत्यादीति । तत्राष्टविधबन्धकेनैकाध्यवसायेन गृहीतस्याष्टौ भागाः सप्तविधबन्धकस्य सप्तभागाः षड्विधबन्धकस्य षड्भागाः, एकविधबन्धकस्यैको भाग इति दलिकानां भागाः, तत्र हि जीवो यदाऽऽयुषो बन्धकालेऽष्टविधबन्धको भवति, तदाऽनन्तस्कन्धात्मकस्य शेषकर्मापेक्षया आयुषोऽल्पस्थितिकत्वेन गृहीतस्य कर्मद्रव्यस्य सर्वस्तोको भाग आयुष्कतया - परिणमते । तत आयुष्कभागापेक्षयाधिकस्स्वस्थाने तुल्यस्थितिकत्वेन तुल्यो नामगोत्रयोर्भागः, ततस्तयोरपेक्षया विशेषाधिकस्स्वस्थाने तुल्यस्थितिकत्वेन तुल्योऽन्तरायावरणयोर्भागः, ततस्तयोरधिको मोहनीयस्य भागः, ततो वेदनीयस्याधिकः, सुखदुःखजननस्वभावस्य वेदनीयस्य तद्भावपरिणतपुद्गलानामाधिक्यत एव स्वकार्यजननसमर्थत्वात् शेषाणान्तु स्वल्पत्वेऽपि तत्सम्भवात् । वेदनीयाच्छेषकर्मणां भागस्य हीनाधिकत्वे स्थितिविशेष एव निबन्धनम्, यथा नामगोत्रादेरायुष्काद्यपेक्षया स्थितेराधिक्ये तयोर्भागस्याधिकत्वं हीनत्वे च हीनत्वमिति । यद्यपि स्थित्यनुरोधेन भागो भवन्नायुषस्सकाशान्नामगोत्रयोर्भागस्य संख्या - गुणत्वं स्यात्तथापि गत्यादिनिखिलकर्मकलापानामायुष्कोदयमूलत्वेनायुषः प्रधानत्वाद् बहुपुद्गलद्रव्यं तत् । यतोर्भागस्य विशेषाधिकत्वन्तु नामगोत्रयोस्सततबन्धित्वेन, आयुष्कं हि कादाचित्कबन्धि, ततोऽल्पद्रव्यम् । यद्यपि च ज्ञानावरणाद्यपेक्षया मोहनीयभागस्य संख्यातगुणस्थितिकत्वेन संख्यातगुणत्वं प्राप्तं न विशेषाधिकत्वं तथापि चारित्रमोहनीयस्य कषायलक्षणस्य चत्वारिंशत्सागरोपमकोटीकोटीस्थितिकत्वेनैतदपेक्षया तद्भागस्यविशेषाधिक त्वमुक्तं, दर्शनमोहनीयद्रव्यं तु सर्वघातित्वेन चारित्रमोहनीयदलिकादनन्तभाग एव वर्त्तत इति न किञ्चित्तेन वर्धत इति । तत्राल्पतरप्रकृतिबन्धस्सर्वोत्कृष्टयोगव्यापारवान् पर्याप्तस्संज्ञीजीव उत्कृष्टप्रदेशबन्धं करोति, बहुतरप्रकृतिबन्धको मन्दयोगोऽपर्याप्तकोऽसंज्ञी जघन्यप्रदेशबन्धं विधत्ते । तथा प्रदेशबन्धश्चतुर्विध उत्कृष्टोऽनुत्कृष्टो जघन्योऽजघन्यश्चेति । सर्वबहवः कर्मस्कन्धा यदा गृह्यन्ते स उत्कृष्टः प्रदेशबन्धः, ततस्स्कन्धहानिमाश्रित्य यावत्सर्वस्तोक-कर्मस्कन्धग्रहणं तावत्सर्वोऽ ऽप्यनुत्कृष्टः, यदा सर्वस्तोककर्मस्कन्धग्रहणं स जघन्यः, तत एकस्कन्धवृद्धिमाश्रित्य यावत्सर्वबहुस्कन्धग्रहणं तावत्सर्वोऽ ऽप्यजघन्यः तत्र ज्ञानदर्शनावरणवेदनीयनामगोत्रान्तरायलक्षणमूलप्रकृतिषट्केऽनुत्कृष्ट एव प्रदेशबन्धः साद्यनादिध्रुवा ध्रुवरूपेण चतुर्विधः, प्रकृतिषट्कस्योत्कृष्टप्रदेशबन्धः क्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य
1