________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[प्रथमकाण्डे विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः । अब्जो जैवातृकः सोमो ग्लौमृगाङ्कः कलानिधिः ॥ १४ ॥ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः। कला तु षोडशो भागो, 'बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १५ ॥ 3भित्तं शकल-खण्डे वा पुंस्योऽधं समेंऽशके । 'चन्द्रिका कौमुदी ज्योत्स्ना, 'प्रसादस्तु प्रसन्नता ॥ १६ ॥ "कलङ्काको लाञ्छनञ्च चिह्न लक्ष्म च लक्षणम् । 'सुषमा परमा शोभा, 'शोभा कान्तिर्युतिश्छविः ॥१७॥ १°अवश्यायस्तु नीहारस्तुषारस्तुहिनं , हिमम् ।
प्रालेयं मिहिका चाथ "हिमानी हिमसंहतिः॥१८॥ १२शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः।
तुषारः शीतलः शीतो हिमः सप्ताऽन्यलिङ्गकाः ॥ १९ ॥ १४ध्रुव औत्तानपादिः १५स्यादगस्त्यः कुम्भसम्भवः ।
मैत्रावरुणिरस्यैव १६लोपामुद्रा समिणी ॥२०॥ ( १ ) चन्द्रमसः षोडशांशस्यकं नाम । [ चन्द्र कला का १ नाम । ] (२) सूर्यस्य चन्द्रस्य च बिम्बस्य द्वे नामनी । विशेष्यनिघ्नत्वान् मण्डलं त्रिषु । [ सूर्यचन्द्र बिम्ब के २ नाम । ] ( ३ ) खण्डस्य चत्वारि नामानि । [ टुकड़ा के ४ नाम । ] ( ४ ) समेंऽशकेऽर्धशब्दो नित्यं नपुंसकलिङ्गः । [ दो आधे भागों में से एक खण्ड का नाम ।] ( ५ ) ज्योत्स्नायाः त्रीणि नामानि । [चाँदनी के ३ नाम ।] (६) प्रसन्नताया द्वे नामनी। [ प्रसन्नता के २ नाम । ] ( ७ ) षड् नामानि चिह्नस्य । [चिह्न के ६ नाम । ] ( ८) परमशोभाया एकं नाम । [ परमशोभा का १ नाम । ] ( ९) चत्वारि नामानि सामान्यशोभायाः । [ सामान्य शोभा के ४ नाम । ] (१०) सप्तनामानि हिमस्य । [हिम के ७ नाम । ] ( ११) द्वे नामनी हिमसमूहस्य । [ बर्फ की शिलाओं के २ नाम । ] ( १२ ) एक नाम शत्यस्य । [ जाड़े का १ नाम । ] ( १३ ) शीतलपदार्थस्य सप्त नामानि । एते शब्दा: अन्यलिङ्गका: विशेष्यलिङ्गा भवन्ति । [ शीतलपदार्थ के ७ नाम ।] ( १४ ) उत्तानपादपुत्रध्रुवस्यकं नाम । [ ध्रुव का १ नाम । ] (१५) अगस्त्यमुनेस्त्रीणि नामानि । [ अगस्त्यमुनि के ३ नाम । ] ( १६ ) अगस्त्यपल्याः द्वे नामनी । [ अगस्त्य की स्त्री के २ नाम । ]
For Private and Personal Use Only