Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 292
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनिमञ्जरोकोषः मणिः सूर्यो मणिश्चन्द्रो मणिहमाचलो गिरिः । मणीरत्नानुरागश्च मणी राजा मणिद्विजः ॥ ४५ ॥ वेला कालविशेषस्याद् वेला सिन्धुजलोद्गतिः । वेलास्यादङ्गुलिच्छेदे वेला द्रोग्यन्तरे ध्वनिः ॥ ४६ ॥ उत्सवे च प्रकोष्ठे च मुहूर्ते नियमे तथा । क्षणशब्दो व्यवस्थायां समयेऽपि निगद्यते ॥ ४७ ॥ भ्रूणो भीद्विजो भ्रूणो भ्रूगो गर्भाशयः स्त्रियः । भ्रूणोऽण्डजः शिशुभ्रूणो विकलो भ्रूण उच्यते ॥ ४८ ॥ अहिर्दैत्यविशेषः स्यात् सूर्योऽहिरहिरध्वज: । भुजङ्गोऽहि: समाख्यातः सिंहिकासूनूरयहिः ॥ ४९ ॥ व्यालोहिः श्वापदो व्यालो व्यालः स्यात् कुटिलः करी । प्रमादवान् नरो व्यालो ब्यालो व्याघ्र उदाहृतः ॥ ५० ॥ शब्दादिविषयाः पञ्च प्रसिद्धा इन्द्रसंज्ञया । श्रेष्ठ इन्द्रः समाख्यातो देवराडिन्द्र उच्यते ॥ ५१ ॥ पयस्विन्यर्जुनी धेनुर्धेनुः कुञ्जरकामिनी । असिपुत्री मता धेनुधनुर्वृत्तिः शिवङ्करी ॥ ५२ ॥ धर्मो वृषो वृषः श्रेष्ठो वृषो गौ मूषको वृषः । वृषो बलं वृषः कामो वृषणो वृष उच्यते ॥ ५३ ॥ योगो युक्तिविशेषश्च संयोगो योग उच्यते । योगश्चागामिको लाभः समाधिर्योग इष्यते ॥ ५४ ॥ शलिर्मुखः शलिर्गर्भः शलिभृङ्गः शलिर्गदा | शलि: सर्पविशेषश्च शलिः कलिरुदाहृतः ॥ ५५ ॥ सीता लक्ष्मीरुमा सीता सीता सस्याधिदेवता । सोता सीरध्वजापत्यं सीता मन्दाकिनी मता ॥ ५६ ॥ आदिमः क्षत्रियो नाभिर्नाभिश्चक्रस्य पिण्डिका । कुटुम्बस्याग्रणीर्नाभिर्नाभिनिम्नोदगा मता ॥ ५७ ॥ गोत्रं नामान्वयो गोत्रं गोत्रश्व धरणीधरः । गोत्रा वसुन्धरा ज्ञेया गोत्रं च प्रबरे स्मृतम् ॥ ५८ ॥ घनो मेघो घनं सान्द्रं कांस्यतालादिकं धनम् । घनं सङ्घो घनं नित्यं घनः स्याल्लोहमुद्गरः ॥ ५९ ॥ शुक्रं देहवतां बीजं शुक्रमक्षिरुजं शुक्रमक्षिरुजं विदुः । ज्येष्ठमासः स्मृतः शुक्रः शुक्रो दैत्यपुरोहितः ॥ ६० ॥ For Private and Personal Use Only २७९

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304