Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 295
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ अनेकार्थध्वनिमञ्जरीकोषः सारङ्गः कुक्कुटो शेयः सारङ्गो भ्रमरो मतः । सारङ्गः खड्गभेदः स्यात् सारङ्गः कमलाह्वयः ॥ ९३ ॥ सारङ्गः कुञ्जरः ख्यातः सारङ्गश्चातको मतः।। सारङ्गः पर्वतो ज्ञेयः सारङ्गो हरिणो मतः ॥ ९४ ।। करणं कारणं विद्यात् क्षेत्रं करणमिष्यते । करणो जातिभेदश्च करणानीन्द्रियाणि च ॥ ९५ ॥ पुण्डरीक: स्मृतो व्याघ्रः पुण्डरीकः कमण्डलुः । पुण्डरीकः सितो वर्णः पुण्डरीकं सरोरुहम् ॥ ९६ ॥ अपत्ये च पृथिव्यादौ काले सीते च राक्षसे । प्राप्ते प्राणिनि कीनाशे भूतशब्दं प्रचक्षते ॥ ९७ ॥ शरभोऽष्टापदश्चैव स्वर्णमष्टापदं मतम् । अष्टापदं सारिफलं कृषिजातिरुदाहृता ॥ ९८॥ बालः केशो जलं बालं बालं काशतृणं मतम् । बालो मूर्खः शिशुर्बालो बालो वेग उदाहृतः ॥ ९९ ॥ बालकः खेचरो व्याघ्रो बालकः पृथुकः स्मृतः। बालकं गन्धद्रव्यं च जटाजूटं च बालकम् ॥१०॥ श्यामा रात्रिस्त्रिवृत् श्यामा श्यामा स्त्री मुग्धयौवना । श्यामा प्रियङ्गुराख्याता श्यामा स्याद् वृद्धदारिका ॥ १०१ ।। शुभा सुधा शुभा सत्या स्नुही क्षीरा शुभा मता । शुभं श्रेयः शुभा शोभा समाख्याता हरीतकी ॥१०२॥ गुरुः पिता गुरुज्येष्ठा गुरुः सुरपुरोहितः । दुर्वहोऽपि गुरुः प्रोक्तो गुरुः शिष्याभिषेचकः ॥ १०३ ॥ कान्तारं काननं प्रोक्तं कान्तारः पाकशासनः । इक्षुभेदश्च कान्तारः कान्तारो दुर्भरोदरः ॥ १०४ ।। खजूरः फलभेदः स्यात् खजूरं रजतं मतम् । खजूरः क्षुद्रजातिः स्यात् खजूरो ग्रहणाधिपः ॥ १०५ ।। बाह्नीकं हिगुराख्यातं बाह्नीकं कुङ्कुमं मतम् । वालीकः स्याज्जनपदो बाह्रीकाश्चाश्वजातयः ॥ १०६ ॥ इति काश्मीराम्नाये महाक्षपणकविरचिते-अनेकार्थध्वनिमञ्जर्या श्लोकाधिकारः प्रथमः समाप्तः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304