Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनिमञ्जरीकोषः २८७ परायण ऋणे स्थाने तत्परश्च परायणः । करिपृष्ठे कुले वेणौ वंशेति कविभिः स्मृता ॥ ६३ ॥ जटाजूटे शिखण्डोक्तिः कलापेऽपि शिखण्डिनः । शिष्टभोजनदेहेषु पात्रशब्दः प्रचक्षते ।। ६४ ।। हंसेऽग्नौ गरुडे चन्द्र द्विजराज इति ध्वनिः । कैवर्तेऽपि च कैवर्तः कैवर्तः सलिलेऽम्बरे ॥ ६५ ॥ पिप्पलाख्या जलाश्वत्थ-वस्त्र-कैवर्त-वस्तुषु । चन्द्रमाश्चन्दनो ज्ञेयश्चन्दनो मलयोद्भवः ॥ ६६ ॥ सकला व्रीहयः सस्यं विज्ञेयं सस्यमक्षिवः । दृषधरण्ये सस्ये च कुरुविन्द इति श्रुतिः ।। ६७ ।। करवीरश्च मारस्यादष्टिः करवीरकः । करीणां बन्धनस्थानं वारिर्वारि जलं मतम् ॥ ६८ ॥ प्रचुरं भूरि विज्ञेयं भूरिकाञ्चनमेव च।। सूदः स्यात्सूपकारश्च सूदो ज्ञेयः कुटुम्बिकः ।। ६९ ।। भषको दुर्जनो ज्ञेयो भषक: सरमासुतः। सूतो भास्कर इत्युक्तः सूतः सारथिरुच्यते ॥ ७० ॥ प्रतिरोधकरो वा स्याद् दुर्जनः प्रतिरोधकः। सौवीरे च विशेषस्यात् सौवीरं काञ्जिकं मतम् ॥ ७१ ॥ दौर्मनस्यं घणा प्रोक्तं घणा च करुणा मता। भङ्गः पलायनं वीचिसंस्थं भङ्गश्च भञ्जनम् ॥ ७२ ।। तीक्ष्णं तीवं समाख्यातं तीक्ष्णं लोहमशन्ति च । मार्गणो याचको ज्ञेयो मार्गणोऽपि शिलोमुखः ॥ ७३ ॥ भृङ्गः शिलीमुखः ख्यातो नाराचोऽपि शिलीमुखः । भूकुण्डो सूकरः प्रोक्तो भूकुण्डी च कृषीवलः ॥ ७४ ॥ पुस्तके प्लुतमश्वस्य गतौ मात्रात्रये प्लुतम् । रुक्मं हेम विजानीयाद् रुक्मं रजतमुच्यते ॥ ७५ ॥ मृणालं बिसनीमूलं मृणालं च जलालुकम् । काव्या तु पूतना ज्ञेया काव्यं ग्रन्थनिबन्धनम् ॥ ७६ ॥ उत्पलं नलिनं प्रोक्तमत्पलं कुष्ठमौषधम् । वासुरा चालनी ज्ञेया वासुरा बलभी मता ॥ ७७ ॥ रजते कलधौतं स्यात् कलधौतं च काञ्चनम् । प्रधानं प्रकृतिः प्रज्ञा प्रधानं विदुरुत्तम् ॥ ७८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304