Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 298
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनिमञ्जरीकोषः २८५ कुसुमं पुष्पमित्याहुः कुसुमं रज उच्यते । धवः पतिर्धवः शुक्लो वृक्षजातिर्धवो मतः ॥ ३२ ॥ धवः प्रतिवधे बाधे वषजातिर्धवो मतः। श्यम्बकस्ताम्रधातुः स्यात् त्र्यम्बकश्च महेश्वरः ॥ ३३ ॥ शिफा शेफालिका ज्ञेया शिफा श्लाघा शिफा जटा । पुण्यं सुविहितं कर्म पवित्रं पुण्यमेव च ॥ ३४ ॥ खलो राशिः खलो नीचः खलः पिण्याक एव च । शाला श्लाघा शिला शाला शाला शाखा च वेश्म च ॥ ३५॥ माल्यं माल्ये शिरोमाल्यं माला माल्यमुदाहृतम् । राढा देशविशेषश्च राढा शोभा विधीयते ॥ ३६ ॥ पलं मांसं पलं मानं पलो मूर्खः पला तुला । आलिः सहचरी ज्ञेया पङ्क्तिरालिरुदाहृता ॥ ३७॥ दलमर्द्ध दलं पत्रं दलं हस्त्यादिसाधनम् । आजिः स्यात् समभूभागः सङ्ग्रामोऽप्याजिरुच्यते ॥ ३८ ॥ प्रतिज्ञा सङ्गरो ज्ञेया सङ्ग्रामः सङ्गरो मतः । उलूकः पुरुहूतः स्यात् पुरुहूतः पुरन्दरः ॥ ३९ ॥ अन्तकेजगरे कुजे मृत्युः स्याम्मरणेऽपि च । शम्पा विद्युत्पविः शम्पा शम्पा शङ्खध्वनिर्मतः ॥ ४० ॥ उपर्यम्भोधरे चूर्णे विदुरभ्रं विपश्चितः । निवृत्तावभिधेयर्थो धने प्रोक्तः प्रयोजने ॥ ४१ ॥ क्रतो क्रोधे तथा दैन्ये मन्युशब्दः प्रचक्षते । बहुला कृत्तिका ज्ञेया गावश्च बहुला मताः ॥ ४२ ॥ प्राध्वं बन्धनमित्युक्तं प्राध्वं प्रहं च सूरिभिः । हरिणः पाण्डुरो वर्णः सारङ्गो हरिणो मतः॥ ४३ ।। करटः कातरों ज्ञेयः करटो ध्वाङ्क्ष उच्यते । कर्करेटुः स्मतो गध्रः कर्करेटुरमर्षणः ॥ ४४ ॥ सौधावयवविज्ञानगमनेषु कला मता। तुषारः क्षुद्र पाषाणे तुषारः शीत उच्यते ॥ ४५ ॥ अमृतं वारि विज्ञेयं देवभोज्यं तथामृतम् । कुन्त्या भूमिः समाख्याता कुन्त्या कुन्तकदम्बकम् ॥ ४६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304