Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 297
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ अनेकार्थध्वनिमञ्जरीकोषः प्रधाने राजलिङ्गे च ककुदाख्या प्रवर्तते । पलमण्डनयोनिष्को निष्को दीनाररुक्मयोः ॥ १६ ॥ युयुत्सोत्सङ्गयो रङ्कः स्यादको लेख्यलक्ष्मणोः । विशिरस्के नरे नीरे कबन्धः खेचरेऽपि च ॥ १७ ॥ मेरौ वृक्षविशेषे च धनुः शब्दस्तु कार्मुके। अक्षिलोमस्मृतं वर्त्म वर्त्म मार्गे प्रकीर्तितम् ॥१८॥ वर्म देहप्रमाणं स्याद्वम देहश्च कथ्यते । दायादो बान्धवः प्रोक्तो दायादस्तनयो मतः ॥ १९ ॥ विग्रहो वैर्यवस्कन्दो विग्रहो वपुरुच्यते। प्रकोष्ठः कूपरस्याधः प्रकोष्टो द्वारकोष्टकः ॥ २० ॥ प्रोक्तं वितानमुल्लोचे वितानं शून्यमुच्यते । सती दाक्षायणी देवी सच्चरित्राबला सती ॥ २१ ॥ वधूारी वधूर्भार्या वधूः पुत्रवधूरपि । रक्षः कशिपुराख्यातः प्रावारः कशिधर्मतः ॥ २२ ॥ आडम्बरो गजारावस्तूर्यनादश्च भण्यते । कपर्दो हरजटौधः कपर्दः श्वेतकाकिनी ॥ २३ ॥ तूवरो निविषाणो गौ निश्मश्रुस्तूवरः पुमान् । पापीयांसो नृशंसाः स्युनूशंसावादिनः स्मृताः ॥ २४ ॥ शारदस्तु शरत्कालः स्यादधृष्टस्तु शारदः। उपह्वरं रहस्थानं समीपं स्यादुपह्वरम् ॥ २५ ॥ प्रस्वेदोऽथ निदाघः स्यान्निदाघो ग्रीष्म उच्यते। कश्मलः स्यात् पिशाचोऽपि कश्मलो मोह एव च ।। २६ ।। केतुर्ग्रहाविशेषः स्याद्ध्वजे केतुरुदाहृतः। अवज्ञा कथ्यते रीढा रीढा गतिरपीष्यते ॥ २७ ॥ वर्द्धनं छेदनं प्रोक्तं वर्द्धनं वृद्धिरुच्यते । कसेरुकं जले कन्दे पृष्टस्यास्थिन कसेरुका ॥ २८ ॥ निर्वातमाश्रयं विद्यादभिन्न केवलं तथा। कोनाशश्व कपर्दः स्यात् कीनाशौ यमकर्षकौ ॥ २९ ।। नागो वृक्षविशेषः स्यानागौ वारण-पन्नगौ। कुलं सङ्घः कुलं गोत्रं शरीरं कुलमुच्यते ॥ ३० ॥ पूगः पूगीफलं प्रोक्तं तथा पूगः कदम्बकम् । ज्ञेयाः सुमनसो देवाः कुसुमानि च सज्जनाः ॥ ३१॥ v Ital F For Private and Personal Use Only

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304