Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनिमञ्जरीकोषः २८३ तटो वप्रः पिता वप्रो वप्रः केदार एव च । सर्पो व्यालो विषो व्यालो व्यालो ज्ञेयश्चतुष्पदः ॥ १॥ अट्टे दारेषु शय्यायां तत्पशब्दोऽभिधीयते । तारा स्वनौ गृहे स्थाने धिष्ण्यमाहुर्मनीषिणः ॥२॥ अभिख्येति समाख्याता कीर्ती कान्तौ च नामनी । रम्भा देवाङ्गना प्रोक्ता रम्भा स्यात् कदली मता ॥ ३ ॥ मोचा शाल्मलिराख्याता मोचाऽपि कदली मता।। कक्षेति भवनान्तर्भूखला गजरज्जुषु ॥ ४ ॥ बले गरुति मासा॰ पक्षा नियमपाश्र्वयोः । मास्याषाढे विशुद्धेऽग्नौ शुक्लेऽनुपहते शुचिः ॥ ५॥ शक्रेऽपि वाषिके मेघे मत्तनागे घनाघनः।। वृक्षभेदे करीरः स्याद् घटे वंशाङ्कुरेऽपि च ॥ ६ ॥ देहे दारेषु केदारे क्षेत्रं वृद्धौ च कीर्त्यते । शेषं केवलमल्पं च विद्यादेकार्थकं बुधः ॥७॥ नि!हो निर्गतापीडा निर्यासद्वारभूमिषु । अविशब्दो रवौ मेषे पर्वतेऽपि निगद्यते ॥ ८॥ मृगपर्वतदुर्गेषु निकृष्टेऽपि च शम्बरः । ध्वनौ धवे च दम्भे च गह्वरे गहनेऽपि च ॥ ९ ।। न्याये तुल्ये विधौ काले चित्ते दण्डे च कल्पवाक् । आत्मेति ब्रह्मवाद् गेह-मनो-यज्ञ-धृतिष्वपि ॥ १० ॥ पर्याप्तौ शिक्षिते पुण्ये क्षेमे च कुशलध्वनिः । प्रत्ययः शपथे छिद्रे-विश्वासे सत्यहेतुषु ॥ ११ ॥ पदं लक्ष्म परित्राणे क्रमे वस्तु-प्रतिष्ठयोः । दोषे चापगमे दण्डे स्याद् प्रत्यय इति श्रुतिः ॥ १२ ॥ प्रभावे तेजसि स्थाने धामशब्दो निगद्यते । जातो चात्मनि-चात्मीये धनेस्वाख्या प्रवर्तते ॥ १३ ॥ कूटाख्यानृतयन्त्रायोधनमायोत्कटादिषु । पारच्छेदे प्रमाणे च मात्राख्या च प्रवर्तते ॥ १४ ॥ इडा वर्षे च पानीये भूमौ वाक्ये रणे मतः। साधु सत्ताप्रशस्तेष श्रेष्ठे च सदिति ध्वनिः ॥ १५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304