Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकार्थध्वनिमञ्जरोकोषः
परिग्रहः ।
परिग्रहः ॥ ७७ ॥
मतः ॥ ७९ ॥
बलौषधी । बलामही ॥ ८० ॥
परिग्रहो द्विजग्राह्ये सैन्यपृष्ठे परिग्रहोऽनुबन्धः स्यात् परिग्राहः सितो वृद्धः सितः शुक्लः सितं रजतमुच्यते । सायकोऽपि सितो ज्ञेयः सितो दैत्यपुरोहितः ॥ ७८ ॥ चित्रकं तिलकं प्रोक्तं चित्रकं शापदो मतः । चित्रमूलश्च जातिश्च चित्रकोऽप्यन्तको लो हली बलं सैन्यं सत्यं बलं रत्नयोनिर्बलो दैत्यो बलालक्ष्मी कुमातृकः कदम्बः स्यात् कदम्बः सर्षपः स्मृतः । कदम्बो वृक्षभेदश्च कदम्बो निर्गुणः पुमान् ॥ ८१ ॥ प्रियको बीजसारश्च प्रियको द्वीपिचित्रकः । प्रियकः प्रियतोयः स्यात् प्रियको मुक्तको व्रती ॥। ८२ ।। अक्षो बिभीतको वृक्षः पाशकोऽक्षोऽक्षमिन्द्रियम् । अक्षो रावणिरित्युक्तः कृत्यमक्षन्तु निम्नगम् ॥ ८३ ॥ चक्रः पक्षिविशेषश्च रथाङ्ग चक्रमायुधम् । चक्रं राष्ट्रं च सङ्घश्च चक्रं व्यावर्तकं मतम् ॥ ८४ ॥ सत्यसन्धः खरो ज्ञेय: खरोऽपि खरदूषकः । खरो रासभ इत्युक्तो व्यवहारे पटुः खरः ॥ ८५ ॥ कृषिर्गोत्र विशेषः स्यात् कृषिः कालः कृषिः कपिः । कृषिराढक इत्युक्तः कृषिवैश्वानरो मुनिः ॥ ८६ ॥ जातिः स्यात् सहजाख्यानं मालतीजातिरुच्यते । गोत्रादिजन्मजातिः स्याज्जातिर्वल्लीति कथ्यते ॥ ८७ ॥ गोविषाणः फणो ज्ञेयो भुजङ्गस्य फणः फणा । फणा जटा फणा तृष्णा फणा मन्थानकुण्डली ॥ ८८ ॥ तिलको वृक्षभेदश्च तिलकं चित्रकं विदुः । तिलकं क्लोमसंज्ञं स्यात् प्रधानं तिलकं मतम् ॥ ८९ ॥ गन्धर्वो देवजातिः स्यात् गन्धर्वो हि तुरङ्गमः । गन्धर्वश्च स्मृतो नागो गन्धर्वो मृगपुङ्गवः ॥ ९० ॥ शृङ्गं प्रधानमिच्छन्ति शृङ्गं च शिखरं विदुः । शृङ्ग विषाणमित्याहुः शब्दकोषविचक्षणाः ॥ ९१ ॥ सारङ्गो धनुषो नाम सारङ्गो वायुरित्यपि । सारङ्गो नाम जातिश्च सारङ्गो नामघातकी ॥ ९२ ॥
For Private and Personal Use Only
२८१

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304