________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
अमरकोषः
[द्वितीयकाण्डे 'ध्यानयोगासने ब्रह्मासनं, कल्पे विधिक्रमौ ॥ ३९ ॥
मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः। "संस्कारपूर्वग्रहणं स्यादुपाकरणं श्रुतेः॥ ४० ॥ 'समे तु पादग्रहणमभिवादनमित्युभे। "भिक्षुः परिबाट कर्मन्दी पाराशर्यपि मस्करी ॥४१॥ 'तपस्वी तापसः पारिकाङ्क्षी, वाचंयमो मुनिः । ५°तपःक्लेशसहो दान्तो, "वणिनो ब्रह्मचारिणः ॥ ४२ ॥ १२ऋषयः सत्यवचसः, १३स्नातकस्त्वाप्लुतो व्रती। १४ये निजितेन्द्रियग्रामा यतिनो यतयश्च ते॥ ४३ ॥ १५यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ।
स्थाण्डिलश्चाथ १६विरजस्तमसः स्युर्द्वयातिगाः॥४४॥ १"पवित्रः प्रयतः पूतः, "पाखण्डाः सर्वलिङ्गिनः। १ पालाशो दण्ड आषाढो व्रते २°राम्भस्तु वैणवः ॥ ४५ ॥
• ( १ ) ब्रह्मासनस्यैकं नाम । [ ब्रह्मासन । । (२) विधेस्त्रीणि नामानि । [विधि के ३ नाम । ] ( ३ ) मुख्यकल्पस्यैकं नाम । [ मुख्य कल्प । ] ( ४ ) अप्रधानविधेर्नाम । [ गौण विधि । ] ( ५ ) उपाकर्मस्यकम् । [ उपाकर्म । ] ( ६ ) अभिवादनस्य नामद्वयम् । [ चरण छूकर प्रणाम के २ नाम । ] (७) सन्यासिनां पञ्च नामानि । [सन्यासियों के ५ नाम । (८) तपस्विनो नामत्रयम् । [ तपस्वी के ३ नाम । ] (९) मौनिनो नाम द्वयम् । [ मौनव्रती के २ नाम । ] (१०) तपः क्लेशसहनशक्तिवतो नामद्वयम् । [ तप के कष्ट को सहन करने के २ नाम । ] ( ११ ) ब्रह्मचारिणो नामद्वयम् । [ब्रह्मचारी के २ नाम । ] ( १२ ) सत्यवक्तुमुने मद्वयम् । [ सत्यवक्ता ऋषि का २ नाम । ] ( १३ ) समाप्तवेदव्रतस्य तत आश्रमान्तरगतस्य नामद्वयम् । [ स्नातक के २ नाम । ] ( १४ ) वशीकृतसन्द्रियस्य त्रीणि नामानि । | जितेन्द्रिय के ३ नाम । ] ( १५ ) स्थण्डिलशायिनो नामद्वयम् । [ भूमि पर सोने वाले के २ नाम । ] ( १६ ) निवृत्तरजस्तमोगुणवतो नामद्वयम् । [ वीतराग के २ नाम । ] ( १७ ) पवित्रस्य नामत्रयम् । [ पवित्र के ३ नाम । ] ( १८) पाखण्डिनो नामद्वयम् । [ पाखण्डी के २ नाम । ] ( १९) पालाशदण्डस्यकम् । [ पलाश का दण्ड । ] ( २० ) वैणवदण्डस्यकम् । [ बाँस का डण्डा । ]
For Private and Personal Use Only