________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शूद्रवर्गः १०] रत्नप्रभाव्याख्यासमेतः
१७१ 'कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् । भरण्यं भरणं मूल्यं निवेशः पण इत्यपि ॥३८॥ सुरा हलिप्रिया हाला परिनुद् वरुणात्मजा। गन्धोत्तमा प्रसन्नेराकादम्बर्यः परिस्रुता ॥ ३९ ॥ मदिरा कश्यमद्ये चाऽप्यवदंशस्तु भक्षणम् । "शुण्डा पानं मदस्थानं, "मधुवारा मधुक्रमाः॥४०॥
मध्वासवो माधवको मधु माध्वीकमद्वयोः । "मैरेयमासवः, सीधुर्मदको जगलः समौ ॥४१॥ 'सन्धानं स्यादभिषवः, १°किण्वं पुंसि तु नग्नहूः। ११कारोत्तरः सुरामण्ड, १२आपानं पानगोष्ठिका ॥४२॥ १३चषकोऽस्त्री पानपात्रं, १४सरकोऽप्यनुतर्षणम् । १५धूर्तोऽक्षदेवी कितवोऽक्षधूर्ती द्यूतकृत्समाः ॥४३॥ १ स्युर्लग्नकाः प्रतिभुवाः, १"सभिका द्यूतकारकाः। १“द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥४४॥
( १ ) वेतनस्यकादश नामनि । [ वेतन, तनखाह के ११ नाम । ] (२) मद्यस्य त्रयोदश नामानि । [ शराब के १३ नाम । ] ( ३ ) अवदंशस्यकम् । [ पकौड़ा, चाट । ] ( ४ ) मदस्थानस्य त्रीणि नामानि । [ कलवरिया के ३ नाम । 1 ( ५ ) मधुपानावस रस्य द्वे नामनी । [ मद्यपान के समय के २ नाम । ] ( ६ ) मधुकपुष्पकृतमद्यस्य चत्वारि नामानि। [ महुआ की शराब के ४ नाम । ] ( ७) इक्षुशाकादिजमदस्य त्रीणि नामानि । [ ईख आदि की शराब के ३ नाम । ] ( ८) सुराकल्कस्य द्वे नामनी । [ सुराकल्क के २ नाम ।] (९) सुरासन्धानस्य नामद्वयम् । [ शराब बनाना के २ नाम । ] ( १० ) मद्यकिण्वस्य द्वे नामनी ! [ मद्यकिण्व के २ नाम । ] ( ११) सुरामण्डस्य द्वे नामनी। [सुरामण्ड के २ नाम । ] ( १२) पानगोष्ठ्याः द्वे नामनी। [पानगोष्ठी के २ नाम । ] ( १३) पानपात्रस्य द्वे नामनी । [ चषक, प्याला के २ नाम । ] ( १४ ) मद्यपानस्य द्वे नामनी । केचित् तु चत्वारि समार्थकानीति । [ मद्यपान के २ नाम । ] ( १५ ) द्यूतकृतः पञ्च नामानि । [ जुवारी के ५ नाम । ] ( १६) प्रतिभुवो द्वे नामनी । [ जमानतदार के २ नाम । ] ( १७ ) द्यूतकारकाणां द्वे नामनी । [जुआ खेलाने वालों के २ नाम ।] ( १८ ) द्यूतस्य चत्वारि नामानि । [ जुआ के ४ नाम । ]
For Private and Personal Use Only