________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
अमरकोषः
[ तृतीयकाण्डे
'क्रन्दने रोदनाहाने, वर्म देहप्रमाणयोः ॥ १२९ ॥ गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे। सन्निवेशे च संस्थानं, "लक्ष्म चिह्नप्रधानयोः ।। १३० ॥ 'आच्छादनं सम्पिधानमपवारणमित्युभे। "आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ॥ १३१॥ 'अधिष्ठानं चक्रपुरप्रभावासिनेष्वपि । 'रत्नं स्वजातिश्रेष्ठेऽपि, 1°वनं सलिलकानने ॥१३२॥ "तलिनं विरले स्तोके, वाच्यलिङ्गास्तथोत्तरे। १२समानाः सत्समैके स्युः, "पिशुनौ खलसूचकौ ॥ १३३ ॥ १४हीनन्यूनावूनगों, १५वेगिर्रौ तरस्विनौ । १अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद् गतावपि ॥१३४ ॥
(इति नान्ताः) ( १) रोदने आह्वाने च क्रन्दनम् । [ रोदन, आह्वान का नाम क्रन्दन । ] (२) देहप्रमाणयोः वर्म । [ देह आदि का नाम वर्म । ] ( ३ ) गृहादौ. धाम । [ घर आदि का नाम धाम । ] ( ४ ) सन्निवेशे चतुष्पथे च संस्थानम् । [ चतुष्पथ, सन्निवेश का नाम संस्थान । ] ( ५ ) चिह्न प्रधाने च लक्ष्म । [चिह्न, प्रधान का नाम लक्ष्म । ] ( ६ ) सम्पिधानादौ आच्छादनम् । [ सम्पिधान आदि का नाम आच्छादन । ] (७) साधनादौ आराधनम् । [ साधन आदि का नाम आराधन । ] (८) रथचक्रादौ अधिष्ठानम् । [ रथचक्र आदि का नाम अधिष्ठान । ] ( ९ ) स्वजातिश्रेष्ठे मणौ च रत्नम् । [ स्वजातिश्रेष्ठ, मणि का नाम रत्न । ] (१०) जले कानने च वनम्। [ जल, कानन का नाम वन । ] ( ११) विरले स्तोके च तलिनम् । तलिनान्तमारभ्य नान्तशब्दपर्यन्ताः शब्दा वाच्यलिङ्गा बोध्याः। [विरल, स्तोक का नाम तलिन । ] (१२) सत्समैकेषु त्रिषु समानाः । [तत्सम आदि का नाम समान । ] ( १३ ) खले सूचके च पिशुनः । [ खल, सूचक का नाम पिशुन । ] ( १४ ) न्यूने गर्ने च होनन्यूनौ । [ न्यून, गह्यं का नाम हीनन्युन । ] ( १५ ) वेगवति शूरे च तरस्वी । [ वेगवान्, शूर का नाम तरस्वी। ] ( १६ ) अपराद्धे अभिग्रस्ते विपद्गते च अभिपन्नः । [ अपराधी, अभिग्रस्त, विपद्गत का नाम अभिपन्न । ]
इति नान्ताः शब्दाः।
For Private and Personal Use Only