________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४३
नानाथवर्गः ३] रत्नप्रभाव्याल्यासमेतः
२४३ 'क्लीबं नपुंसके षण्डे वाच्यलिङ्गमविक्रमे ।
(इति वान्ताः ) 'द्वौ विशौ वैश्यमनुजौ, द्वौ चराऽभिमरौ स्पशौ ॥ २२० ॥ * द्वौ राशी पुञ्जमेषाद्यौ, द्वौ वंशौ कुलमस्करी। 'रहःप्रकाशौ बोकाशौ, निर्देशो भृतिभोगयोः ॥ २२१ ॥ 'कृतान्ते पुंसि कोनाशः क्षुद्रकर्षकयोस्त्रिषु। 'पदे लक्ष्ये निमित्तेऽपदेशः स्यात् १°कुशमप्सु च ॥ २२२ ॥ "दशाऽवस्थानेकविधाप्याशा तृष्णापि चायता।
वृशा स्त्री करिणी च स्याद्, "दृग्ज्ञाने ज्ञातरि त्रिषु ॥ २२३ ॥ १"स्यात् कर्कशः साहसिकः कठोराऽमसृणावपि । "प्रकाशोऽतिप्रसिद्धेऽपि, "शिशावज्ञे च बालिशः॥ २२४ ॥
(१) नपुंसके षण्डे च क्लीबम् ! वान्तोऽप्ययमिति केचित् । [ नपुंसक, षण्ड का नाम क्लीब । ]
इति वान्ताः शब्दाः। ( २ ) वैश्ये मनुष्ये च विट् । शान्तः। [वैश्य, मनुज का नाम विश् । ] ( ३ ) द्वयोः स्पशः । [ चर, अभिसर ( युद्ध ) का नाम स्पश । ] ( ४ ) पुञ्ज मेषे च राशिः। [ पुञ्ज, मेष आदि का नाम राशि । ] ( ५ ) कुलादौ वंशः । [कुल, मस्कर का नाम वंश । ] (६) रहसि प्रकाशे च वीकाशः । [ रहः, प्रकाश का नाम वीकाश।] (७) भृतौ भोगे च निर्वेशः । [ भृति, भोग का नाम निर्देश । ] (८) कृतान्तादौ कीनाशः। [यमराज आदि का नाम कीनाश । ] (९) पदादिषु अपदेशः । [ पद आदि का नाम अपदेश । ] ( १०) दर्मे जले च कुशम् । [ दर्भ, जल आदि का नाम कुश । ] ( ११) दीपवाम् अवस्थादौ च दशा । [ दीपवर्ति आदि का नाम दशा । ] ( १२ ) दिशि तृष्णायां च आशा । [ दिशा, तृष्णा का नाम आशा । ] ( १३ ) वन्ध्यायां करिण्यां च वशा। [ वन्ध्या, करिणी का नाम दशा।] ( १४ ) ज्ञानप्रभृतिषु दृक् शान्ता। [ ज्ञान आदि का नाम दिश् । ] (१५) साहसिकादिषु कर्कशः । [ साहसिक आदि का नाम कर्कश । ] ( १६ ) अतिप्रसिद्ध स्फुटे च प्रकाशः । [ स्फुट आदि का नाम प्रकाश । ] ( १७ ) मूर्खे बाले च बालिशः। [ मूर्ख बालक का नाम बालिश।]
For Private and Personal Use Only