Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[तृतीयकाण्डे 'गुणद्रव्यक्रियायोगोपाधयःपरगामिनः कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि । अणाधन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः॥ ४५ ॥ षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् । परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥
__इति लिङ्गादिसङ्ग्रहवर्गः। ( १ ) गुणद्रव्यक्रियायां योगः उपाधिः निमित्तं येषां ते परगामिन:वाच्यलिङ्गाः भवन्ति । यथा--शुक्ला शाटी, शुक्ल: पटः, शुक्लं वस्त्रम् । दण्डिकुलम्, दण्डी पुरुषः, दण्डिनी स्त्री । पाचकम् औषधम्, पाचिका स्त्री, पाचक: पुरुषः । [ गुणद्रव्य--शुक्ला शाटी, शुक्ल: पट:, शुक्लं वस्त्रम् । ] (२) कर्तरिविहिताः कृतः प्रत्यया वाच्यलिङ्गाः किन्तु संज्ञायां विहितास्त एव प्रत्यया वाच्यलिङ्गा न भवन्तीत्याशयः । यथा--कर्ता पुरुषः, की स्त्री, कर्तृ कुलम् । कुम्भकारः, कुम्भकारी, कुम्भकारम् । संज्ञायान्तु धनञ्जयः, नायं वाच्यलिङ्गः। कर्तरि कर्मणि च कृत्याः वाच्यलिङ्गाः स्यः। कर्तरि यत्-भव्यः, भव्या, भव्यम् । कर्मणि ण्यत्-कार्यः, कार्या, कार्यम् । कर्तरि कर्मणीत्यादिवचनं किमर्थम् ? भावे-भवितव्यम् । 'तेन रक्तं रागात्' इत्याद्यर्थे विहिता अणादयः प्रत्ययाः तदन्ताः शब्दा नानार्थभेदकाः ( विशेषणानि ) भवन्ति । यथा--कौकुमं वस्त्रम्कौङ्कमी शाटी, कौङ्कमः पटः। वासिष्ठं साम, वासिष्ठी ऋक् वासिष्ठो मन्त्रः । [कृत् प्रत्यय--कर्ता, की, कर्तृ । ] ( ३ ) षान्ता नान्ताश्च षट्संज्ञका!, नान्तो यथा-पञ्च स्त्रिया, पञ्च कुलानि । षान्तो यथा—षट् पुरुषाः, षट् स्त्रियः, षट् कुलानि । सर्वनाम--कति घटाः, कति स्त्रियः, कति कुलानि । युष्मद्-- त्वं स्त्री, त्वं पुरुषः त्वं फलम् । अस्मद्-अहं स्त्री, अहं पुरुषः, अहं फलम् । अव्ययम--उच्चैः प्रासादः, उच्चः शाला, उच्चैः गृहम् । एवमन्यत्रापि । लिङ्गविधायकवचनविरोधे सति परं वचनं ग्राह्यम्भवति । शेषमिति-इह लिङ्गानुशासने यदनुक्तं तत् सर्व शिष्ट प्रयोगाज्ज्ञातव्यम् । यथा--'कोरकाणीति' माघप्रयोगान्नपुंसकत्वमपि । अन्यथा--'कलिका कोरकः पुमान्' । इत्यमरः पुंसि कोरकशब्दं स्वीकरोति । [ षट् संज्ञक-युष्मद्, अस्मद्, तिङन्त, अव्यय तीनों लिंगों में समान होते हैं । नान्त--पञ्च पुरुषार, पञ्च स्त्रियः, पञ्च फलानि । षान्तषट् पु०, षट् स्त्री०, षट् नपुं० । ]
इति लिङ्गादिसङ्ग्रहवर्गः।
For Private and Personal Use Only

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304