Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकाक्षर-कोषः
जेता जश्च प्रकथितः सूरिभिः शब्दशासने । रवो झकारः कथितो नष्टे शञ्चोच्यते बुधैः ॥ १४ ॥ झकारश्च तथा वायौ नेपध्ये समुदाहृतः । अकारो गायने प्रोक्तो जकारो झर्झरध्वनौ ॥ १५॥ टो धरित्र्यां च करके टो ध्वनौ च प्रकोत्तितः। ठकारो जनतायां स्यात् ठो ध्वनौ च शठेऽपि च ॥ १६ ॥ ठो महेशः समाख्यातो ठश्च शून्ये प्रकीतितः। बृहद्धनौ च ः प्रोक्तस्तथा चन्द्रस्य मण्डले ॥ १७ ॥ डकारः शङ्करे त्रासे ध्वनौ भीमे निरुच्यते । ढकारः कीर्तिता ढक्का निर्गुणे निर्धने मतः ॥१८॥ णकारः सूकरे ज्ञाने निश्चये निर्णयेऽपि च । तकारः कोत्तितश्चौरे क्रोडपुच्छे प्रकीर्तितः ॥ १९ ॥ शिलोच्चये थकारः स्यात् थकारो भयरक्षणे । दकारोऽभ्रे कलत्रे च छेदे दाने च दातरि ॥२०॥ धं धने सधने धः स्याद् विधातरि मनावपि । धिषणा धीः समाख्याता धूश्चैव भार-वित्तयोः ॥२१॥ नेता तश्च समाख्यातस्तरणौ नः प्रकोत्तितः।। नकारः सौगते बुद्धौ स्तुतौ नस्तु प्रकीर्तितः ॥ २२ ॥ नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कोत्तितः । पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः ॥ २३ ॥ पवने पः समाख्यातः पः स्यात् पाने च पातरि । कफे वाते फकारः स्यात् तथाऽऽह्वाने प्रकोतितः ॥ २४ ॥ फुत्कारेऽपि च फः प्रोक्तस्तथा निष्कलभाषणे। बकारो वरुणः प्रोक्तः कलशे बः फलेऽपि च ॥ २५ ॥ वक्षःस्थले च वः प्रोक्तो गदायां समुदाहृतः। नक्षत्रे भं बुधाः प्राहुर्भवने भः प्रकीर्तितः ॥ २६ ॥ दीप्तिर्भाः स्याच्च भूमिर्मीमयं कथितं बुधैः। मः शिवश्चन्द्रमा वेधा मा लक्ष्मीश्च प्रकीर्तिता ॥ २७ ॥ मा च मातरि माने च बन्धने मः प्रकीत्तितः। यशो यः कथितः प्राजों वायुरिति शब्दितः ॥२८॥
For Private and Personal Use Only

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304