Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिङ्गादिसङ्ग्रहवर्गः ५] रत्नप्रभाव्याल्यासमेतः 'त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ ।
( इति त्रिलिङ्गशेषसङ्ग्रहः) 'परलिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥ ४२ ॥ अर्थान्ताः प्राद्यलम्प्राप्तापन्नपूर्वाः परोपगाः। तद्धितार्थे द्विगुः सङ्ख्यासर्वनामतदन्तकाः॥४३॥ बहुब्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् । (१) 'त्रिषु' इत्यधिकारः । पात्रादयो दाडिमान्तास्त्रिषु भवन्ति । उक्तपद्ये स्त्रीलिङ्गप्रदर्शनं तु ङयन्तता सूचनार्थम् । क्रमेणोदाहरणानि-पात्रः पात्री, पात्रम् । पुटः, पुटी, पृटम् । वाट:, वाटी, वाटम् । पेटः, पेटी, पेट(क)म् । कुवलः, कुवली, कुवलम् । दाडिमः, दाडिमी, दाडिमम् । [ त्रिषु अधिकार-उक्त पत्र आदि शब्द तीनों लिंगों में होते हैं । यथा—पात्रः, पात्रा, पात्रम् आदि । ]
इति त्रिलिङ्गसङ्ग्रहः । (२) स्वप्रधाने समस्यमानपदार्थप्रधाने द्वन्द्वे, इतरेतरद्वन्द्वे च परपदस्य लिङ्गम् भवति । कुक्कुटमयूयौं, मयूरीकुक्कुटौ । कुलब्राह्मणः, ब्राह्मणकुलम् । एषः सामान्यनियमः । अस्य वाधोऽग्रे प्रदश्यते ।। द्वन्द्व, तत्पुरुष समास में समस्त पद परवल्लिग होता है--मयूरीकुक्कुटो, कुक्कुरमयूयौ आदि । ] ( ३ ) अर्थान्ता इति—अर्थः अन्ते येषां ते = अर्थान्ताः। प्राद्यादिपूर्व येषां ते, परं =विशेष्यम् उपगच्छन्ति विशेष्यलिङ्गाः । त एव परोपगाः । अर्थान्ता यथा-द्विजार्थाः यवागः । द्विजार्थं पयः । द्विजार्थः सूपः । प्रादिपूर्वाः--प्रगत आचार्यः प्राचार्यः। निष्क्रान्तः कौशाम्ब्याः = निष्कौषाम्बिः । एवम् असम्प्रासापन्नपूर्वाश्च--अलं जीविकाय = अलजीविकः। प्राप्तजीविकः । आपन्नजीविकः । परोपगा:-पञ्चसू कपालेषु संस्कृतः पुरोडाशः = पञ्चकपाल: । सङ्ख्याः सर्वनामानि च तदन्ताः शब्दाः विशेष्यनिघ्नाः—एकः, एका, एकम् । त्रयः, तिस्रः, स्त्रीणि । सर्वः, सर्वा, सर्वम् । तदन्ताः--परमत्रयः, परमतिस्रः, परमत्रीणि । परमसर्वः, परमसर्वा, परमसर्वम् । बहुव्रीहिसमासो वाच्यलिङ्गः स्यात् । बहुधनः, बहुधना, बहुधनम् । आदिङ्नाम्नामिति किम् ? उत्तरपूर्वा । अत्र 'दिङ्नामान्यन्तराले' इति बहुव्रीहिः । [अर्थान्त-- द्विजार्थाः यवागू, द्विजार्थं पयः, द्विजार्थः सूपः । प्रादिपूर्व--प्राचार्य । परोपग-- पञ्चकपाल । सर्वनाम--एकः, एका, एकम् । तदन्त--परमत्रयः, परमतिस्रः, परमत्रीणि । वायलिङ्ग--बहुधनः, बहुधना, बहुधनम् । ]
For Private and Personal Use Only

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304