Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ अमरकोषः _ [ तृतीयकाण्डे 'अद्यात्रायथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥ तथाऽधरान्यान्यतरेतरात्पू र्वेधुरादयः । उभयाश्चोभयेधुः परे त्वह्नि परेद्यवि ॥ २१ ॥ "ह्योऽतीते ऽनागतेऽह्नि श्वः, 'परश्वश्व परेऽहनि । "तदा तदानी, 'युगपदेकदा, 'सर्वदा सदा ॥ २२॥ १°एतहि सम्प्रतीदानीमधुना साम्प्रतं तथा। १"दिग्देशकाले पूर्वादौ प्रागुदक् प्रत्यगादयः॥ २३ ॥ इत्यव्ययवर्गः। +xsoane ५. अथ लिङ्गादिसाहवर्गः १२सलिङ्गशास्त्रः सन्नादिकृत्तद्धितसमासजैः। अनुक्तः सङ्ग्रहे लिङ्गं सङ्कीर्णवदिहोन्नयेत् ॥१॥ ( १ ) पूर्वेऽह्नि पूर्वेयुः। उत्तरेऽह्नि उत्तरेयुः। अपरेऽह्नि अपरेयुः । एवम् अधरेयुः, अन्येयुः, अन्यतरेयुः, इतरेयुः इत्यादि। [ अद्य = आज पूर्वेद्य = पहले दिन । ] ( २ ) उभयस्मिन्नहनीत्यर्थे द्वयम् । [ उभयद्यु = दोनों दिन । ] ( ३ ) परेह्नि-परेद्यवि । [ दूसरे दिन । ] ( ४ ) ह्योऽतीतेऽह्नि । [ बीता हुआ कल । ] (५) अनागतेऽह्नि श्वः। [ श्वः = आने वाला कल । ] ( ६ ) परेऽहनि परश्वः । [ परसों। ] (७) तस्मिन् काले तदा, तदानीम् । [ तब । ] (८) एकस्मिन् काले एकदा, युगपत् । [ एक बार । ] (९) सर्वस्मिन् काले सर्वदा, सदा। [ सदा । ] ( १० ) एतस्मिन् काले एतर्हि इदानीम् । अधुना । साम्प्रतम् । [ इस समय । ] (११) प्राच्यां दिशि, प्राच्या दिशः, प्राची दिग् वा । प्राचि देशे काले च । प्राचो देशात्, कालाच्च । प्राङ् देशः कालो वा । एवम् अवाच्या दिशि, अवाचो देशात्, अवाङ् देशः । अवाक् । आदि शब्देन-~-उत्तरात्, अधरात्, दक्षिणात् । उत्तरेण, अधरेण, दक्षिणेन, दक्षिणा, दक्षिणाहि, दक्षिणतः, उत्तरतः, इत्यादयो बोध्याः । [ पूर्वदिशा आदि के नाम । ] इत्यव्ययवर्गः। (१२) पाणिनिप्रभृतिप्राचीनवैयाकरणप्रोक्तलिङ्गानुशासनसहितः, अर्था For Private and Personal Use Only

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304