________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
अमरकोषः
_ [ तृतीयकाण्डे 'अद्यात्रायथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥ तथाऽधरान्यान्यतरेतरात्पू र्वेधुरादयः । उभयाश्चोभयेधुः परे त्वह्नि परेद्यवि ॥ २१ ॥ "ह्योऽतीते ऽनागतेऽह्नि श्वः, 'परश्वश्व परेऽहनि । "तदा तदानी, 'युगपदेकदा, 'सर्वदा सदा ॥ २२॥ १°एतहि सम्प्रतीदानीमधुना साम्प्रतं तथा। १"दिग्देशकाले पूर्वादौ प्रागुदक् प्रत्यगादयः॥ २३ ॥
इत्यव्ययवर्गः।
+xsoane
५. अथ लिङ्गादिसाहवर्गः १२सलिङ्गशास्त्रः सन्नादिकृत्तद्धितसमासजैः।
अनुक्तः सङ्ग्रहे लिङ्गं सङ्कीर्णवदिहोन्नयेत् ॥१॥ ( १ ) पूर्वेऽह्नि पूर्वेयुः। उत्तरेऽह्नि उत्तरेयुः। अपरेऽह्नि अपरेयुः । एवम् अधरेयुः, अन्येयुः, अन्यतरेयुः, इतरेयुः इत्यादि। [ अद्य = आज पूर्वेद्य = पहले दिन । ] ( २ ) उभयस्मिन्नहनीत्यर्थे द्वयम् । [ उभयद्यु = दोनों दिन । ] ( ३ ) परेह्नि-परेद्यवि । [ दूसरे दिन । ] ( ४ ) ह्योऽतीतेऽह्नि । [ बीता हुआ कल । ] (५) अनागतेऽह्नि श्वः। [ श्वः = आने वाला कल । ] ( ६ ) परेऽहनि परश्वः । [ परसों। ] (७) तस्मिन् काले तदा, तदानीम् । [ तब । ] (८) एकस्मिन् काले एकदा, युगपत् । [ एक बार । ] (९) सर्वस्मिन् काले सर्वदा, सदा। [ सदा । ] ( १० ) एतस्मिन् काले एतर्हि इदानीम् । अधुना । साम्प्रतम् । [ इस समय । ] (११) प्राच्यां दिशि, प्राच्या दिशः, प्राची दिग् वा । प्राचि देशे काले च । प्राचो देशात्, कालाच्च । प्राङ् देशः कालो वा । एवम् अवाच्या दिशि, अवाचो देशात्, अवाङ् देशः । अवाक् । आदि शब्देन-~-उत्तरात्, अधरात्, दक्षिणात् । उत्तरेण, अधरेण, दक्षिणेन, दक्षिणा, दक्षिणाहि, दक्षिणतः, उत्तरतः, इत्यादयो बोध्याः । [ पूर्वदिशा आदि के नाम । ]
इत्यव्ययवर्गः।
(१२) पाणिनिप्रभृतिप्राचीनवैयाकरणप्रोक्तलिङ्गानुशासनसहितः, अर्था
For Private and Personal Use Only