________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
[ तृतीयकाण्डे
अमरकोषः हुँ वितर्के परिप्रश्ने, समयान्तिकमध्ययोः । 'पुनरप्रथमे भेदे, निनिश्चय-निषेधयोः ॥ २५९ ॥ 'स्यात् प्रबन्धे चिरातीते निकटागामिके पुरा। 'ऊर!री चोररी च विस्तारेऽङ्गीकृतौ त्रयम् ॥ २६० ॥
स्वर्गे परे च लोकः स्वर्वीतासंभाव्ययोः किल । 'निषेधवाक्यालङ्कारजिज्ञासानुनये खलु ॥ २६१ ॥ १°समीपोभयतः-शीघ्र-साकल्याभिमुखेऽभितः । १'नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि ॥ २६२ ।। १३तिरोऽन्तौँ तिर्यगर्थे, हा विषादाशुतिषु । १"अहहेत्यद्भुते खेदे. "हि हेताववधारणे ॥ २६३ ॥
इति नानार्थवर्गः।
HORA
( १ ) वितर्के परिप्रश्ने च हुम् । [ वितर्क, परिप्रश्न में हुम् । ] ( २ ) अन्तिकमध्ययोः समया। [ अन्तिक, मध्य अर्थ में समया। ] ( ३ ) अप्रथमे भेदे च पुनः । [ अप्रथम, भेद में पुनः । ] ( ४ ) निश्चये निषेधे च निः। [ निश्चय, निषेध में नि । ] ( ५ ) प्रबन्धादौ पुरा । [ प्रबन्ध आदि में पुरा ।] ( ६ ) अङ्गीकृतौ विस्तारे च उररी, ऊररी, ऊरी च । [ अङ्गीकृत, विस्तार में उररी, ऊररी, ऊरी। ] ( ७ ) स्वर्गादौ स्वः । [ स्वर्ग आदि में स्वः । ] (८) वार्तादौ किल । [वार्ता आदि में किल । ] ( ९ ) निषेधादौ खलु । [ निषेध आदि में खलु । ] (१०) समीपादौ अभितः । [समीप आदि में अभितः । ] ( ११) नामप्राकाश्ययोः प्रादुः । [ नाम, प्राकाश्य अर्थ में प्रादु।] ( १२ ) अन्योऽन्यादौ मिथः । [ अन्योन्य आदि में मिथः । ] ( १३ ) अन्तधौ तियंगर्थे च तिरः । [ अन्तधि, तिर्यक् अर्थ में तिरः । ] ( १४ ) विषादाशुगतिषु हा। [विषाद, आशुगति आदि अर्थों में हा । ] (१५ ) अद्भुते खेदे अहहा। [ अद्भुत, खेद में अहहा । ] ( १६ ) हेतौ अवधारणे च हि । [ हेतु, अवधारणा में हि । ]
इति नानार्थवर्गः।
Post
For Private and Personal Use Only