________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नानार्थवर्गः ३ ]
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
3
४
'आरम्भो निष्कृतिः शिक्षा पूजनं सम्प्रधारणम् । उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ १६३ ॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः । कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने ॥ १६४ ॥ कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः । "जन्यं स्याज्जनवादेपि 'जघन्योऽन्त्येऽधमेऽपि च ॥ १६५ ॥ गर्ह्यधोनौ च वक्तव्यौ, 'कल्यौ सज्जनिरामयौ । 'आत्मवाननपेतोऽर्थादर्थ्यो, पुण्यं तु चार्वेपि ॥ ११ रूप्यं प्रशस्तरूपेऽपि, १२ वदान्यो वल्गुवागपि । १३ न्याय्येऽपि मध्यं, १४ सौम्ये तु सुन्दरे सोमदैवते ॥ ( इति यान्ताः ) १५ निवहाऽवसरौ वारौ, संस्तरो प्रस्तराऽध्वरौ ।
१०
१६६ ॥
१६७ ॥
"
२३३
( १ ) आरम्भादिनवसु क्रिया । [ आरम्भ, शिक्षा आदि नौ का नाम क्रिया । ] ( २ ) सूर्यप्रियादि चतुर्षु च्छाया । [ सूर्यप्रिया, कान्ति, प्रतिबिम्ब, अनाप का नाम छाया । ] ( ३ ) प्रकोष्ठादिचतुर्षु कक्ष्या । [ प्रकोष्ठ आदि
नाम कक्ष्या | ] ( ४ ) 'कृत्या विद्विषि कार्ये च कृत्या क्रिया दिवौकसोः ' । इति रभसः । [ जादू टोना आदि का नाम कृत्या | ] ( ५ ) जनवादे युद्धेऽपि चजन्यम् । [ जनवाद, युद्ध का नाम जन्य । ] ( ६ ) अन्त्ये अधमे च जघन्यः । [ अन्त्य, अधम का नाम जघन्य । ] ( ७ ) अधीने गह्यं च वक्तव्यः । [ अधीन, गर्ह्य का नाम वक्तव्य | ] ( ८ ) सज्जे निरामये च कल्यः । [ सज्ज, निरामय का नाम कल्य । ] ( ९ ) आत्मवति अर्थादनपेते च अर्ध्यः । [ आत्मवान्, अर्थादनपेत का नाम अर्ध्य । ] ( १० ) धर्मे मनोज्ञे च पुण्यम् । [ धर्म, मनोज्ञ
नाम पुण्य । ] ( ११ ) रजते प्रशस्तरूपे च रूप्यम् । [ सुन्दर, रजत का नाम रूप्य । ] ( १२ ) दातरि वाग्मिनि च वदान्य: । [ दाता, वाग्मी का नाम वदान्य । ] ( १३ ) न्याय्ये अवलग्ने अन्तरे अधमे च मध्यम् । [ न्याय्य आदि का नाम मध्य । ] ( १४ ) बुधे सुन्दरे मनोज्ञे च सौम्यम् । [ सुन्दर, मनोज्ञ, बुध का नाम सौम्य । ]
इति यान्ताः शब्दाः |
( १५ ) निवहे अवसरे च वारः । [ निवह, अवसर का नाम वार । ] ( १६ ) प्रस्तरे अध्वरे च संस्तरः । [ प्रस्तर, अध्वर का नाम संस्तर । ]
For Private and Personal Use Only