________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[ तृतीयकाण्डे 'सङ्घाते सनिवेशे च संस्त्यायः, 'प्रणयास्त्वमी। वित्रम्भयाश्चाप्रेमाणो, विरोधेऽपि समुच्छयः ॥ १५८ ॥ विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि । पनिर्यासेऽपि कषायोऽस्त्री, 'सभायां च प्रतिश्रयः॥ १५९ ॥ "प्रायो भूम्न्यन्तगमने, 'मन्युर्दैन्ये क्रतौ क्रुधि । "रहस्योपस्थयोर्गुह्य, सत्यं शपथतथ्ययोः ॥१६० ॥ ११वीयं बले प्रभावे च, "द्रव्यं भव्ये गुणाश्रये। १३धिष्ण्यं स्थाने गृहे भेऽग्नौ, १ भाग्यं कर्म शुभाशुभम् ॥ १६१ ॥ १५कशेरुहेम्नोर्गाङ्गेयं १६विशल्या दन्तिकाऽपि च । १"वृषाकपायी श्रीरौर्यो रंभिख्या नामशोभयोः॥१६२॥
(१) सङ्घाते सन्निवेशे च संस्त्यायः । [संघात, सन्निवेश का नाम संस्त्याय । ] ( २) विस्रम्भे याञ्चायां प्रेम्णि च प्रणयः । [ विस्रम्भ, याञ्चा, प्रेम का नाम प्रणय । ] ( ३ ) उन्नतौ वैरे च समुच्छ्रयः । [ उन्नति, वैर, का नाम समुच्छ्रय । ] ( ४ ) देशादौ विषयः । [ देश आदि का नाम विषय । ] (५) निर्यासे रसभेदे विलेपने च कषायः। [ निर्यास, रसभेद का नाम कषाय । ] ( ६ ) सभायाम् आश्रयाभ्युपगमे च प्रतिश्रयः । [ सभा आदि का नाम प्रतिश्रय । ] (७) अनशने, बाहुल्ये, अन्तगमने च प्रायः । [ अनशन, अन्तगमन का नाम प्रायः । ] ( ८ ) दैन्ये क्रतौ युधि च मन्युः । [ दैन्य, ऋतु, युद्ध, का नाम मन्यु ।] (९) उपस्थे रहस्ये गुह्ये च गुह्यम् । [रहस्य, उपस्थ का नाम गुह्य । (१०) शपथे तथ्ये च सत्यम् । [ शपथ, तथ्य का नाम सत्य । ] ( ११ ) बले प्रभाव च वीर्यम् । [ बल, प्रभाव का नाम वीर्य । ] ( १२ ) भव्ये घुणाश्रये च द्रव्यम् । [ भव्य, घुणाश्रय का नाम द्रव्य । ] ( १३) स्थाने गृहे नक्षत्रे अग्नौ च धिष्ण्यम् । [ स्थान, गृह, नक्षत्र, अग्नि का. नाम धिष्ण्य । ] (१४ ) शुभाशुभकर्मादौ भाग्यम् । [ शुभ, अशुभ कर्म का नाम भाग्य । ] ( १५ ) स्वर्णे कशेरुके भीष्मे च गाङ्गेयः । [ भीष्म, स्वर्ण, कशेरुक का नाम गांगेय । ] ( १६ ) अग्निशिखायां दन्तिकायां गुडूच्यादिषु च विशल्या। [ अग्निशिखा, दन्तिका, गुडूची का नाम विशल्या । ] ( १७ ) लक्ष्म्यां गौर्याञ्च वृषाकपायी । [श्री, गौरी का नाम वृषाकपायी।] ( १८ ) नाम्नि शोभायाञ्च अभिख्या । [ नाम, शोभा का नाम अभिख्या।]
For Private and Personal Use Only