________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेष्यनिघ्नवर्गः १] रत्नप्रभाव्याख्यासमेतः
१७९ 'स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगॉवाक् । 'दुर्मुखे मुखराऽबद्धमुखौ, शक्लः प्रियंवदे ॥३६ ॥ लोहलः स्यादस्फुटवाग "गीवादी तु कद्वदः। समौ कुवादकुचरौ, स्यादसौम्यस्वरोऽस्वरः॥ ३७॥ ‘रवणः शब्दनो, नान्दीवादी नान्दीकरः समौ । १°जडोऽज्ञ ११एडमूकस्तु वक्तं श्रोतुमशिक्षिते ॥ ३८ ॥ १२तूष्णींशीलस्तु तूष्णीको, नग्नोऽवासा दिगम्बरे । १४निष्कासितोऽवकृष्टःस्यात् १५अपध्वस्तस्तु धिक्कृतः ॥ ३९ ॥ १"आत्तगर्वोऽभिभूतः स्यात् १ दापितःसाधितः समौ । १"प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः॥४०॥ १९निकृतः स्याद् विप्रकृतो, २°विप्रलब्धस्तु वञ्चितः।
( १ ) वाचालस्य चत्वारि नामानि । [ वाचाल के ४ नाम । । (२) अप्रियवादिन स्त्रीणि नामानि । [ कटुभाषी के ३ नाम । ] ( ३ ) प्रियवादिनो नामद्वयम् । [ प्रियभाषी के २ नाम । ] ( ४ ) अस्फुटभाषिणो नामद्वयम् । [अस्पष्ट बोलने वाले के २ नाम । (५) गद्य भाषिणो नामद्वयम् । निन्दितभाषण करने वाले के २ नाम । ] ( ६ ) कुकथनशीलस्य द्वे नामनी । [ अशुभभाषी के २ नाम । (७) रूक्षस्वरवतो नामद्वयम् । [ कटुभाषी के २ नाम ।] ( ८ ) शब्दकरणशीलस्य नामद्वयम् । [बड़बड़िया के २ नाम । ] (९) नाटकादौ नङ्गलार्थं भेर्यादिवादकस्य नामद्वयम् । [ बाजा वादक के २ नाम । ] (१०) मूर्खस्य नामद्वयम् । [ मूर्ख के २ नाम । ] (११) भाषण-श्रवणयोरयोग्यस्यकम् । अनेडमूकम्, इति पाठान्तरम् । शब्दोऽयं त्रिषु । [ गूंगा ] ( १२ ) मौनशीलस्य नामद्वयम् । [ चुप रहने वाला के २ नाम । ] ( १३ ) दिगम्बरस्य त्रीणि नामानि । [ नंगा के ३ नाम ।। ( १४ ) निष्कासितस्य द्वे नामनी। [घर से निकाले हुए के २ नाम । ] ( १५ ) धिक्कृतस्य द्वे नामनी । [ धिक्कार प्राप्त के २ नाम । ] ( १६ ) गर्वयुक्तस्य नामद्वयम् । केचन चत्वारः पर्याया एतस्यैव इति । [घमण्डी के २ नाम ।] (१७) धनादिकं प्रदापितस्य द्वे नामनी । अथवा प्रदापितधनादेः । [ जिसको धन आदि दिलाया गया हो, उसके २ नाम । ] ( १८ ) प्रत्याख्यातस्य चत्वारि नामानि । [ अपमानित के ४ नाम । ] (१९) तिरस्कृतस्य नामद्वयम् । [ तिरस्कृत के २ नाम ।] ( २० ) वञ्चितस्य द्वे नामनी। [ ठगे हुए के २ नाम । ]
For Private and Personal Use Only