________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
-
अमरकोषः
[तृतीयकाण्डे "सि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गहं तथा ॥४६॥ २निष्ठा निष्पत्तिनाशान्ताः, काष्ठोत्कर्षे स्थितौ दिशि । *त्रिषु ज्येष्ठोऽतिशस्तेऽपि, "कनिष्ठोऽतियुवाल्पयोः ॥४७॥
(इति ठान्ताः) 'दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः । 'सर्पमांसात्पशू व्याडौ, गोभूवाचस्त्विडा इलाः॥४८॥ १°क्ष्वेडा वंशशलाकाऽपि, नाडी नालेपि षटक्षणे। १२काण्डोऽस्त्री . दण्डवाणाऽर्ववर्गाऽवसरवारिषु ॥४९॥ १३स्याद् भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने ।
(इति डान्ताः) (१) अन्तर्जठरे कुसूले मध्ये अन्तर्गृहे च कोष्ठः । [ अन्तर्जठर, कुसूल, अन्तर्गृह का नाम 'कोष्ठ' ! ] ( २ ) निष्पत्तौ नाशे अन्ते च निष्ठा। [ निष्पत्ति, नाश, अन्त का नाम 'निष्ठा'।] ( ३ ) दिशि उत्कर्षे, च काष्ठा। [ उत्कर्ष, स्थिति, दिशा का नाम काष्ठा'।] ( ४ ) श्रेष्ठे वृद्ध मासान्तरे च ज्येष्ठः । [प्रशस्त का नाम 'ज्येष्ठ' । ] गृहगोधायां, जन्तौ, नक्षत्रभेदे च ज्येष्ठा। (५) अतियुने, अत्यल्पानुजे, स्त्रियि दुर्बलाङ्गलौ च कनिष्ठः । [अतियुवा, अति अल्पानुज आदि का नाम 'कनिष्ठ' ।]
___ इति ठान्ताः शब्दाः। (६ ) यमे, मानभेदे, लगुडे च दण्डः। [लगुड का नाम 'दण्ड' । ] (७) गोलके, हस्तिसन्नाहे, इक्षुविकारे च गुडः । [ इक्षुपाक तथा गोली का नाम 'गुड' ।] (८) व्याने खले स च व्याडः । व्यालोऽपि पाठः । [ सर्ष, पशु का नाम 'व्याड' । ] (९) बुधयोषिति, सौरभेय्यां, वसुमत्यां च इडा । कलत्रे गवि वाचि च इला। [ गाय, भूमि, वाणी का नाम 'इडा' ( इला । )] (१०) सिंहनादे वंशशलाकायां च क्ष्वेडा। [वंश शलाका का नाम 'क्ष्वेडा'।] (११) षट्क्षणे नाले ( काले वा पाठभेदः ) शिरायां कुहनस्य चर्चायां नाडी। [नाल, षट्क्षणकाल का नाम 'नाडी'। (१२) अवसरे वाणे नाले शाखिनां स्कन्धे स्तम्बे रहसि वर्गे च काण्डः । [ अवसर, बाण, नाल, वृक्षस्कन्ध, स्तम्ब, रहस्, वर्ग का नाम 'काण्ड' । ] ( १३ ) पात्रे, वणिमूलधने च भाण्डम् । [पात्र, वणिक मूलधन का नाम 'भाण्ड' । ]
इति डान्ताः शब्दाः।
For Private and Personal Use Only