________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
अमरकोषः
[तृतीयकाण्डे 'यन्ता हस्तिपके सूते, भर्ता धातरि पोष्टरि ॥ ६५ ॥
यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते। "ग्रहभेदे ध्वजे केतुः, पार्थिवे तनये सुतः ॥६६॥ *स्थपतिः कारभेदेऽपि, 'भूभृद्भूमिधरे नृपे। 'मूर्धाभिषिक्तो भूपेऽपि, १°ऋतुः स्त्रीकुसुमेऽपि च ॥ ६७ ॥ ११विष्णावप्यजिताऽव्यक्तौ, १२सूतस्त्वष्टरि सारथौ। १३व्यक्तः प्राज्ञेऽपि, १४दृष्टान्तावुभे शास्त्रनिदर्शने ॥ ६८॥ १५क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायाञ्च शूद्रजे। १६वृत्तान्तः स्यात्प्रकरणे प्रकारे कात्य॑वार्तयोः ॥ ६९ ॥
"आनर्तः समरे नृत्यस्थाननीवृद् विशेषयोः। ( १ ) हस्तिपके सारथौ च यन्ता । [ हस्तिपक, सारथि का नाम 'यन्ता' । ] (२) ब्रह्मणि रक्षके च भर्ता। [ब्रह्मा, रक्षक का नाम 'भर्ता'।] ( ३ ) शिशौ यानपात्रे च पोतः । [ यानपात्र, शिशु का नाम 'पोत' ] ( ४ ) प्राण्यन्तरे मृते च प्रेतः। [ प्राण्यन्तर, मृत का नाम 'प्रेत' । ] ( ५ ) ध्वजे ग्रहभेदे च केतुः । [ध्वज, ग्रहभेद का नाम 'केतु'। ] ( ६ ) पुत्रे पार्थिवे च सुतः । [ पुत्र, पार्थिव का नाम 'सुत' । ] (७) कञ्चुकिनि तक्षके च स्थपतिः । [ कञ्चुकी, कारुभेद का नाम 'स्थपति' । ] (८) नृपे भूमिधरे ( पर्वते ) च भूभृत् । [ राजा, भूमिधर का नाम 'भूभृत्' । ] (९) भूपाले मन्त्रिणि क्षत्रियेऽपि च मूर्धाभिषिक्तः । [ भूपाल, मन्त्री, क्षत्रिय का नाम 'मूर्धाभिषिक्त' । ] (१०) वसन्तादौ स्त्रीकुसुमे च ऋतुः । [ वसन्त आदि, स्त्री कुसुम का नाम 'ऋतु' ।] (११) विष्णौ रुद्रे अव्यक्ते च अजितः । [ विष्णु, रुद्र, अव्यक्त का नाम 'अजित'।] ( १२ ) तक्षिण, सारथी, क्षत्रियाद् ब्राह्मणी सुते सूतः । [ तक्षा, सारथि, क्षत्रिय ब्राह्मणी में उत्पन्न का नाम 'सूत'।] (१३ ) स्फुटे बुद्धिमति च व्यक्तः । [ स्फुट, बुद्धिमान का नाम 'व्यक्त' । ] ( १४ ) उदाहृतौ, शास्त्रे, मरणे च दृष्टान्तः। [उदाहरण, शास्त्र, मरण का नाम 'दृष्टान्त' । ] (१५) द्वाःस्थे सारथौ शूद्रात् क्षत्रियायां जाते च क्षत्ता। [ द्वारस्थित, सारथि, शूद्र से क्षत्राणी में उत्पन्न का नाम 'क्षत्ता'।] (१६) प्रकरणे प्रकारे कात्य वार्तायां च वृत्तान्तः। [प्रकरण, प्रकार, कृत्स्नता, वार्ता का नाम 'वृत्तान्तः'।] (१७ ) नृत्यस्थाने जने रणे देशभेदे च आनतः। नृत्यस्थान, जन, रण, देशभेद का नाम 'आनत'।]
For Private and Personal Use Only