________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[तृतीयकाण्डे
'प्रत्युत्क्रमः प्रयोगार्थः, प्रक्रमः स्यादुपक्रमः। 'स्यादभ्यादानमुदधात आरम्भः, सम्भ्रमस्त्वरा ॥२६॥ "प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् । "उपलम्भस्त्वनुभवः, 'समालम्भो विलेपनम् ॥ २७॥ 'विप्रलम्भो विप्रयोगो, १°विलम्भस्त्वतिसजनम् । "विश्रावस्तु प्रतिख्यातिरक्षा प्रतिजागरः॥२८॥ १३निपाठ-निपठौ पाठे, "तेमस्तेमौ समुन्दने । १५आदीनवानवौ क्लेशे, "मेलके सङ्गसङ्गमौ ॥ २९॥ "संवीक्षणं विचयनं मार्गणं मृगणा मृगः। "परिरम्भः परिष्वङ्गः संश्लेष उपगृहनम् ॥ ३०॥ १९निवर्णनन्तु निध्यानं दर्शनालोकनेक्षणम् । २°प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥३१॥ २१ उपशायो विशायश्च पर्यायशयनार्थको।
(१) कर्मारम्भे प्रथमप्रयोगस्य - नामद्वयम् । [ कार्यारम्भ के २ नाम । ] (२) प्रथमारम्भस्य नामद्वयम् । [ प्रारम्भ करने के २ नाम । ] ( ३ ) आरम्भ-- सामान्यस्यौं त्रीणि । केचित् पञ्चापि आरम्भस्येति । [ सामान्य आरम्भ के ३ नाम । ] ( ४ ) त्वराया द्वे नामनी। [ शीघ्रता के २ नाम । ] ( ५ ) प्रतिबन्धस्य द्वे । [ रुकावट के २ नाम । ] ( ६ ) अधोनयनस्य द्वे । [ नीचे ले जाने के २ नाम । ] (७ ) अनुभवस्य द्वे । [ अनुभव के २ नाम । ] (८) विलेपनस्य द्वे । [ चन्दन आदि लगाने के २ नाम । ] (९) वियोगस्य नामद्वयम् । [मित्रजन वियोग के २ नाम । ] (१०) दानस्य द्वे । [दान के २ नाम । ] (११) अतिप्रसिद्ध नामनी । [ अतिप्रसिद्धि के २ नाम । ] (१२) अवेक्ष. णस्य द्वे। [देख-रेख के २ नाम।] (१३ ) पठनस्य त्रीणि। [पढ़ने के ३ नाम । ] ( १४ ) आर्दीभावस्य त्रीणि । [ गीला करना के ३ नाम । ] (१५) क्लेशस्य त्रीणि नामानि । [ कष्ट के ३ नाम । ] ( १६.) सङ्गमस्य त्रीणि नामानि । [ मिलना के ३ नाम । ] ( १७ ) अन्वेषणस्य पञ्च। मृगणा-मृगया, इति पाठभेदः । ( १८ ) आलिङ्गनस्य चत्वारि । [ आलिंगन के ४ नाम ।] ( १९) दर्शनस्य पञ्च नामानि । [ देखना के ५ नाम । ] ( २०) प्रत्याख्यानस्य चत्वारि । [ जबाब देना, नहीं कहना के ४ नाम । ] ( २१ ) पर्यायक्रमण ' प्रहरादौ शयनस्य द्वे । [ पारी से सोना के २ नाम । ]
For Private and Personal Use Only