________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शूद्रवर्गः १० ] रत्नप्रभाव्याख्यासमेतः
'शुल्बं वराटकं . स्त्री तु रज्जुत्रिषु वटी गुणः। २उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहः ॥२७॥
पुंसि वेमा वायदण्डः, सूत्राणि नरि तन्तवः । "वाणिव्यूंतिः स्त्रियौ तुल्ये, 'पुस्तं लेप्यादिकर्मणि ॥२८॥ "पाञ्चालिका पुत्रिका स्याद् वस्त्रदन्तादिभिः कृता। ['जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु।] 'पिटकः पेटकः पेटा मञ्जूषाऽथ १°विहङ्गिका ॥ २९ ॥ भारयष्टि"स्तदालम्बि शिक्यं काचोऽथ२ पादुका। पादूरुपानत्स्त्री, १3सैवानुपदीना पदायता ॥३०॥ १४नघ्री वो वरत्रा १५स्यादवादेस्ताडनी कशा। १ चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥३१॥
( १ ) रज्जोः पञ्च नामानि । तत्र शुल्ब-वराटके क्लीबे, रज्जुः स्त्रियाम्, बटी त्रिषु भवति । [रस्सी के ५ नाम । ( २ ) घटीयन्त्रस्य नामद्वयम् । [अरहट, रहट के २ नाम । ] ( ३ ) वस्त्रव्युतिदण्डस्य द्वे नामनी । [करघा के २ नाम । ] ( ४ ) सूत्रस्य द्वे नामनी। [ सूत, तागा के २ नाम । ( ५ ) वस्त्रादिवानस्य द्वे नामनी । [ कपड़ा बुनना के २ नाम । ] ( ६ ) वस्त्रादिलेप्यस्यकम् । आदिना काष्ठपुतलिकादिबोध्यम् । [ रंगाई आदि का नाम । ] तत्र पुस्तस्वरूपम्---
- मृदा वा दारुणा वाऽथ वस्त्रेणाऽप्यथ चर्मणा ।।
लोहरत्नः कृतं वाऽपि पुस्तमित्यभिधीयते' ॥ इति । (७) वस्त्रदन्तादिभिः कृतायाः पुत्रिकाया नामद्वयम् । [ गुड़िया, खिलौना के २ नाम । ] ( ८ ) जतुनपुविकारयोः क्रमेणकैकं नाम त्रिषु भवति । [ जातुष तथा त्रापुष । ( १) मञ्जूपायाश्चत्वारि नामानि । मुकुटस्तु आद्यद्वयं पेटकस्येति स्वीकरोति । [ पिटारी, सन्दूक के ४ नाम । ] (१०) शिक्याधारलगुडस्य द्वे नामनी [ बहगी की लकड़ी के २ नाम । ] ( ११) शिक्यस्य द्वे नामनी। [ छींका के २ नाम । ] ( १२ ) पादुकायास्त्रीणि नामानि । [ खड़ाऊँ, जूता के ३ नाम । ] ( १३ ) विस्तृतपादत्राणस्यकम् । [बूट।] ( १४ ) चर्ममयरज्जोस्त्रीणि नामानि । [ चमड़े की रस्सी के ३ नाम । ] ( १५ ) कशाया एकं नाम । [चाबुक, छड़ी ।] ( १६ ) चाण्डालवीणायास्त्रीणि नामानि । [ छोटी सारंगी के ३ नाम । ]
For Private and Personal Use Only