________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेष्यनिघ्नवर्गः १] रत्नप्रभाव्याख्यासमेतः
१७५ 'अधिद्धिः समृद्धः स्याद् कुकुटुम्बव्यापृतस्तु यः ॥ ११॥ स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् । वराङ्गरूपोपेतो यः सिंहसंहननो हि सः॥१२॥ 'निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्त्वसम्पदा। "अवाचि मूकोऽथ 'मनोजवसः पितृसन्निभः ॥ १३ ॥ "सत्कृत्यालङ्कृतां कन्यां यो ददाति स कुकुदः । 'लक्ष्मीवॉल्लक्ष्मणःश्रीलःश्रीमान् स्निग्धस्तु वत्सलः॥ १४ ॥ १°स्याद्दयालुः कारुणिकः कृपालुः सूरतः समाः।
स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १६ ॥ १२परतन्त्रः पराधीनः परवान्नाथवानपि । 13अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥ १४खलपूः स्यादबहुकरो, दीर्घसूत्रश्चिरक्रियः । १ जाल्मोऽसमीक्ष्यकारी स्यात् "कुण्ठो मन्दःक्रियासु यः॥१७॥
( १ ) सम्पन्नस्य द्वे नामनी। [ सम्पन्न के २ नाम । ] ( २ ) कुटुम्बपालनतत्परस्य नामत्रयम् । [ कुटुम्ब पालनकर्ता के ३ नाम । ] ( ३ ) सौन्दर्योपेतस्यकम् । [ सुन्दरता युक्त।] ( ४ ) निःशङ्ककार्यकर्तुरेकम् । [ निश्चिन्त होकर काम करने वाला । ] ( ५ ) मूकस्य द्वे नामनो। [ गूंगा के २ नाम । ] ( ६ ) पितृसमस्य द्वे नामनी । अदन्तोऽपि मनोजवः, सान्तोऽपि मनोजवाश्च । [पिता के समान के २ नाम । ] (७) संस्कारपूर्वककन्यादातुरेकं नाम । [ कूकुद । ] (८) श्रीमतश्चत्वारि नामानि । [श्रीमान् के ४ नाम । ] (९) वत्सलस्य द्वे नामनी। [प्रिय के २ नाम । ] ( १० ) दयालोश्चत्वारि नामानि । [ दयालु के ४ नाम ] । (११) स्वच्छन्दस्य पञ्च नामानि । [ स्वतन्त्र के ५ नाम । ] ( १२ ) परतन्त्रस्य चत्वारि नामानि । [पराधीन के ४ नाम ।] (१३) अधीनसामान्यस्य पञ्च नामानि । केचित् परतन्त्रत्यारभ्य नवानपि पर्यायान स्वीकुर्वन्ति । [ अधीन के ५ नाम । ] ( १४ ) भूमिसम्माजकस्य द्वे नामनी । [ झाडू लगाने वाले के २ नाम । ] ( १५) बिलम्बेन कर्मकरस्य द्वे नामनी। [ देर से काम करने वाले के २ नाम । ] ( १६ ) असमीक्ष्यकायं कुर्वतो वे नामनी। [बिना सोचे समझे कार्य करनेवाले के २ नाम । ] ( १७ ) मन्दक्रियस्यैकं नाम । [धीरे काम करने वाला।]
For Private and Personal Use Only