________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाण्डे रथे काम्बलवस्त्राद्याः कम्बलादिभिरावृते ॥ ५४॥ त्रिषु द्वैपादयो, रथ्या रथकट्या रथवजे।
धूः स्त्री क्लीबे यानमुखं स्याद् रथाङ्गमपस्करः॥ ५५ ॥ "चक्रं रथाङ्गं तस्याऽन्ते नेमिः स्त्री स्यात्प्रधिःपुमान् । "पिण्डिका नाभिरक्षाग्रकोलके तु द्वयोरणिः ॥ ५६ ॥ "रथगुप्तिर्वरूथो ना, कूबरस्तु युगन्धरः। ११अनुकर्षो दार्वधःस्थं, २प्रासङ्गो ना युगान्तरम् ॥ ५७॥ १३सर्वं स्याद् वाहनं यानं युग्यं पत्त्रं च धोरणम् । १४परम्परावाहनं यत् तद् वैनीतकमस्त्रियाम् ॥ ५८॥ १५आधोरणा हस्तिपका हस्त्यारोहा निषादिनः । १ नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ॥ ५९॥
सव्येष्टदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः। (१) वस्त्रकम्बलादिभिरावृतस्य रथस्यकैकं त्रिषु । [ वस्त्र, कम्बल आदि से लपेटा हुआ रथ । ] (२) रथसमूहस्य त्रीणि नामानि । [ रथ समूह के ३ नाम । ] ( ३ ) वृषादिबन्धनस्थानस्य नामद्वयम् । तत्र धूः रान्तः । [ बैल आदि को बांधने के स्थान के २ नाम । ] ( ४ ) चक्रादन्यस्य रथारम्भकस्य नामद्वयम् । [ रथाङ्ग के २ नाम । ] (५) रथचक्रस्य नामद्वयम् । [ रथ का पहिया के २ नाम । ] ( ६ ) चक्रस्यान्तभागस्य नामद्वयम् । [ पहिया का बाहरी भाग के २ नाम । ] ( ७ ) चक्रनाभेर्नामद्वयम् । [चक्रनामि के २ नाम । ] ( ८ ) अक्षाग्रकीलकस्य नामद्वयम् । [अणि, अर, आर के २ नाम । ] ( ९) परप्रहाणाभिघातरक्षार्थं रथसंनाहवद् आवरणस्य नामद्वयम् । [ छप्पर के २ नाम । ] (१०) युगकाष्ठबन्धनस्थानस्य नामद्वयम् । [ जुआ बांधने के स्थान के २ नाम ।] (११) रथस्याधस्तलभागदारुण एकम् । [ रथ के नीचे लगी लम्बी लकड़ी।] नान्तोऽपि अनुकर्षाशब्दः । (१२) अन्यवृषयुग्मस्यैकम् । केचित्तु-रथाद्यङ्गयुगादन्यद् यगं वृषभदमनकाले यद् आसज्यते तस्यकम् । [ रथ में अभ्यास कराने के लिये जोता गया बैलों का दूसरा जोड़ा।] ( १३ ) वाहनमात्रस्य पञ्च नामानि । [ सवारी के ५ नाम । ] ( १४ ) परम्परावाहनस्य शकटादेरेकम् । [ गाड़ियों की कतार । ] ( १५ ) हस्तिपकस्य चत्वारि नामानि । [ महावत, पीलवान के ४ नाम । ] ( १६ ) अष्टौ नामानि सारथेः । [ सारथि, गाड़ीवान् के ८ नाम । ]
For Private and Personal Use Only