________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाण्डे
शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥ ६७॥ कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् । अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः ॥ ६८॥ धन्वी धनुष्मान् धानुष्को निषङ्गयस्त्री धनुर्धरः।। ५स्याकाण्डवांस्तु काण्डीरः, शाक्तीकः शक्तिहेतिकः॥ ६९ ॥ "याष्टोकपारश्वधिका यष्टिपर्धधहेतिकौ । 'नैत्रिशिकोऽसिहेतिः स्यात् समौ प्रासिककौन्तिकौ ॥ ७० ॥ १°चर्मो फलकपाणिः स्यात् "पताकी वैजयन्तिकः । १ अनुप्लवः सहायश्वानुचरोऽभिसरः समाः ॥७१॥ पुरोगा-ऽग्रेसर-प्रष्ठा-ऽग्रतःसर-पुरःसराः । पुरोगमः पुरोगामी, १४मन्दगामी तु मन्थरः ।। ७२॥ ५"जङ्घालोऽतिजवस्तुल्यौ, १६जङ्घाकरिकजाखिको। १७तरस्वी त्वरितो वेगी प्रजवी जवनो जवः ॥७३॥
(१) शस्त्रजीविनश्चत्वारि नामानि । [ शस्त्र से आजीविका करने वाला के ४ नाम । ] (२) सम्यककृतशराभ्यः सस्य शूरस्य नामत्रयम् । [ वाण चलाने में कुशल योधा के ३ नाम । ] ( ३ ) लक्ष्यच्युतशरस्य गरस्यैकम् । [ लक्ष्य से बाण चूका हुआ शूर । ] ( ४ ) धनुर्धरस्य षड् नामानि । [ धनुषधारी के ६ नाम । ] (५) बाणधारणकर्तुर्नामद्वयम् । [ बाणधारी के २ नाम । ] ( ६ ) शक्तिनामकास्त्रधारिणो नामद्वयम् । [ शक्ति धारक के २ नाम । ] (७) यष्टिधारिणः परशुधारिणश्चैकैकं नाम । [ लाठी और फरसाधारी का नाम । ] ( ८) खड्गधारिणो नामद्वयम् । [ खड्ग ( तलवार ) धारी के २ नाम । ] ( ९) प्रासकुन्तधारिणोरेकैकं नाम । [बी, भाला धारियों का १-१ नाम । ] ( १०) फलकधारकस्य नामद्वयम् । [ ढाल वाला के २ नाम । ] (११) पताकाधार. कस्य नामद्वयम् । [झण्डा वाला के २ नाम । ] (१२) अनुचरस्य नामचतुष्टयम् । [ सहायक, सेवक, नौकर के ४ नाम । ] ( १३ ) अग्रेसरस्य सप्त नामानि । [ अगुआ, आगे चलने वाला के ७ नाम । (१४ ) मन्थरगतिवतो नामद्वयम् । [ धीरे चलने वाला के २ नाम । ] ( १५ ) अतिवेगवतः पुरुषस्य नामद्वयम् । [ शीघ्र चलने वाला पुरुष के २ नाम । ] (१६ ) जङ्घाजीविनो नामद्वयम् । [ हरकारा के २ नाम । ] ( १७ ) वेगशालिनः षड् नामानि । [ जल्दीबाज के ६ नाम ।
For Private and Personal Use Only