________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षत्रियवर्गः ८] रत्नप्रभाव्याख्यासमेतः
१३९ इष्वासोऽप्यथ 'कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥ कपिध्वजस्य गाण्डीव-गाण्डिवौ पुनपुंसको। 'कोटिरस्याटनी, गोधे तले ज्याघातवारणे ॥ ८४ ।। पलस्तकस्तु धनुर्मध्यं, मौर्वी ज्या शिञ्जिनी गुणः। "स्यात् प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥ 'लक्षं लक्ष्यं शरव्यं च, 'शराभ्यास उपासनम् । १°पृषत्क-बाण-विशिखा अजिह्मग-खगाशुगाः ॥ ८६ ॥
कलम्ब-मार्गण-शराः पत्री रोप इषुर्द्वयोः । ११प्रक्ष्वेडनास्तु नाराचाः, १२पक्षो वाजस्त्रिपूत्तरे ॥ ८७॥ ११निरस्तः प्रहिते बाणे, १४विषाक्ते दिग्धलिप्तको । १"तूणोपासङ्गतूणीरनिषङ्गा इषुधिद्वयोः ॥ ८८॥
( १ ) कर्णस्य धनुषो नाम । [ कालपृष्ठ, कर्ण का धनुष । ] ( २ ) अर्जुनधनुषो नामद्वयम् । [ अर्जुन के धनुष के २ नाम 'गाण्डीव' । ] ( ३ ) धनुषकोटे मद्वयम् । [ धनुष का कोना के २ नाम । ] ( ४ ) ज्याघातवारणस्य नामद्वयम् । [ धनुष की डोरी की चोट को रोकने के २ नाम । ] ( ५ ) धनुषो मध्यभागस्यक. 'लस्तकः' । [ धनुष का मध्यभाग । ] ( ६ ) धनुषो गुणस्य चत्वारि नामानि । [ धनुष की डोरी के ४ नाम । ] ( ७ ) धन्विनां स्थानभेदानां पञ्च नामानि । तान्यथा--१. प्रत्यालीढम्, २. आलीढं, ३. समपदं, ४. विशाखं, ५. मण्डलञ्च । [धनुष धारियों के स्थान भेदों के ५ नाम । तत्र रभस एवं मनुते
'वैष्णवं समपादं च वैशाखं मण्डलन्तथा ।
प्रत्यालीढमथालीढं स्थानान्येतानि षड्नणाम् ॥ इति रभसः । (८) लक्ष्यस्य नामत्रयम् । [ निशाना के ३ नाम । ] ( १ ) शरक्षेपाभ्यासस्य नामद्वयम् । [ बाण चलाने के अभ्यास के २ नाम ।। (१०) बाणस्य द्वादश नामानि । [ बाण के १२ नाम । ] ( ११ ) लौहमय बाणस्य नामद्वयम् । [ लोहे के बाण के २ नाम । ] ( १२) शरपक्षस्य नामद्वयम् । अत्र वक्षमाणा लिप्तकान्ताः शब्दास्त्रिषु प्रयुज्यन्ते । [ बाण के पुंख के २ नाम । ] ( १३ ) प्रक्षिप्तबाणस्यैकम् । [ धनुष द्वारा फेंके हुए बाण के २ नाम । ] ( १४ ) विषदिग्धबाणस्य नामद्वयम् । [ विष में बुझाये हुए बाण के २ नाम । ] ( १५ ) तूणीरस्य षड् नामानि । [ तरकस के ६ नाम । ]
For Private and Personal Use Only