________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
अमरकोषः
[द्वितीयकाण्डे
अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः ॥ १०१॥ 'द्रविणं तरः-सहो-बल-शौर्याणि स्थाम शुष्मं च ।
शक्तिः पराक्रमः प्राणो, 'विक्रमस्त्वतिशक्तिता ॥ १०२॥ ४वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे। "युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ मृधमास्कन्दनं सङ्घयं समोकं साम्परायिकम् । अस्त्रियां समराउनीकरणाः कलहविग्रहौ ॥ १०४ ॥ सम्प्रहाराऽभिसम्पातकलिसंस्फोटसंयुगाः । अभ्यामर्दसमाघातसङ्ग्रामाभ्यागमाहवाः ॥१०५ ॥ समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः। नियुद्धं बाहुयुद्धेऽथ "तुमुलं रणसङ्कले ॥१०६ ॥ 'वेडा तु सिंहनादः स्यात् 'करिणां घटना घटा। १°क्रन्दनं योधसंरावो, ११बृंहितं करिजितम् ॥ १०७ ॥ १२विस्फारो धनुषः स्वानः, १ पटहाऽऽडम्बरौ समौ ।
(१) परस्परम् अहङ्कारस्यकम् । [ मैं बड़ा हूँ, मैं बड़ा हूँ इस प्रकार का घमण्ड करना । (२) पराक्रमस्य दश नामानि । तत्र तर: सान्त क्लीबे, स्थाम नान्तं क्लीबे । [ शक्ति के १० नाम । ] ( ३ ) अतिविक्रमस्य नामद्वयम् । [ अतिविक्रमस्य नामद्वयम् । [ अतिपराक्रम के २ नाम । ] ( ४ ) युद्धारम्भे समाप्तौ वा मद्यपानस्यैकम् । [ युद्ध के आदि अथवा अन्त में मद्यपान । ] ( ५) युद्धस्यकत्रिशन्नामानि, तत्र यत्-धान्ता, संयत्-समित्-च तान्ते । [यद्ध के ३१ नाम ।। ( ६ ) बाहुयुद्धस्य नामद्वयम् । [ कुस्ती के २ नाम । ] ( ७ ) रणसङ्कलस्य नामद्वयम् । [ घमासान युद्ध के २ नाम । ] ( ८) शूराणां सिंहनादस्य नामद्वयम् । तत्र वेडा शब्द: स्त्रियाम् । [योधाओं की सिंहगर्जना के २ नाम । (९) गजसमूहस्य नामद्वयम् । [ हाथियों के झुंड के २ नाम।] (१० ) स्पर्धया योधानां परस्परमाह्वानस्य नामद्वयम् । योधाओं का एक दूसरे को ललकारने के २ नाम । ( ११ ) गजजितस्य नामद्वयम् । [ हाथी की चिंघाड़ के २ नाम । ] (१२) धनुष: शब्दस्यकम् । [ धनुष की टंकार । ] ( १३ ) यद्धपटहस्य नामद्वयम् । [ मारूबाजा के २ नाम । ]
For Private and Personal Use Only