________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
क्षत्रियवर्गः ८] रत्नप्रभाब्याख्यासमेतः
८. अथ क्षत्रियवर्गः 'मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । २राज्ञि राट् पार्थिवक्ष्माभृन्नपभूपमहीक्षितः॥१॥ राजा तु प्रणताऽशेषसामन्तः स्यादधीश्वरः। चक्रवर्ती सार्वभौमो, नृपो ऽन्यो मण्डलेश्वरः॥२॥ 'येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राडथ 'राजकम् ॥३॥ राजन्यकञ्च नृपतिक्षत्रियाणां गणे क्रमात् । 'मन्त्री धोसचिवोऽमात्योऽन्ये. कर्मसचिवास्ततः॥४॥
महामात्राः प्रधानानि, १ पुरोधास्तु पुरोहितः। ११द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ॥५॥ १२प्रतीहारो द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः। १३रक्षिवर्गस्त्वनीकस्थो ऽथाध्यक्षाधिकृतौ समौ ॥ ६॥
( १ ) क्षत्रियस्य पञ्च,नामानि । [ क्षत्रिय के ५ नाम । ] ( २ ) नृपस्य सप्त नामानि । [ राजा के ७ नाम । ] ( ३) स्वदेशसीमासमीपस्थसमस्तसामन्तसम्पूजितो राजा। [ अधीश्वर । ] ( ४ ) पर्यन्तपृथिवीमण्डलस्य राजा चक्रवर्ती' तस्य नामद्वयम् । [ चक्रवर्ती राजा के २ नाम । ] ( ५ ) मण्डलेश्वरस्यैकं नाम । [ माण्डलिक राजा । ] ( ६ ) सार्वभौमविशेषस्य नाम । केषाञ्चिन्मते राजसूययज्ञकर्ता । [ सम्राट । ] द्वादशराजमण्डलस्वामी ‘सम्राट'। सकलराजकशासकः 'सम्राट', इति । ( ७ ) राजसमूहस्य [ राजसमूह ] क्षत्रियसमूहस्य च एकं नाम, राजकम् । ( ८ ) सचिवस्य नामत्रयम् । [ मन्त्री के ३ नाम । ] ( ९) प्रधानमन्त्रिणः सहायकानां नामत्रयम् । [ गृह, स्वास्थ्य, शिक्षामन्त्री आदि के ३ नाम ।] ( १० ) पुरोहितस्य नामद्वयम् । [पुरोहित के २ नाम । ] ( ११ ) अधिकारित्वेन व्यवहारद्रष्टुः नामद्वयम् । [ जज ( न्यायाधीश ) के २ नाम । ] (१२ ) द्वारपालस्य पञ्च नामानि । [ द्वारपाल, पहरेदार के ५ नाम । ] ( १३ ) रक्षकवर्गस्य नामद्वयम् । [ सिपाही के ५ नाम । ] ( १४ ) अधिकारिणो नामद्वयम् । [ अधिकारी ( अफसर, हाकिम ) के २ नाम । ]
For Private and Personal Use Only