________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
अमरकोषः
[द्वितीयकाण्डे 'कपिला भस्मगर्भा सा, शिरीषस्तु कपीतनः। भण्डिलोऽप्यथ चम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥ एतस्य कलिका गन्धफली स्यादथ 'केसरे। बकुलो, 'वञ्जलोऽशोके, समौ करक-दाडिमौ ॥ ६४॥ 'चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः । 'जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ १°श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका।
जयोऽथ "कुटजः शक्रो वासको गिरिमल्लिका ॥६६॥ एतस्यैव कलिङ्गे-न्द्रयव-भद्रयवं फले। 13कृष्णपाकफला-ऽऽविग्न-सुषेणाः करमर्दके ॥ ६७ ॥ १४कालस्कन्धस्तमालःस्यात्तापिच्छोऽप्यथ १"सिन्दुके।
सिन्दुवारेन्द्र सुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥ १६वेणी खरा गरी देवताडो जीमूत इत्यपि । १ श्रीहस्तिनी तु भूरुण्डी, “तृणशून्यं तु मल्लिका ॥ ६९ ॥
भूपदी शीतभीरुश्च, सैवाऽऽस्फोता वनोद्भवा। (१) कपिलवर्णाया: शिशिपाया एकं नाम । [ कपिलवर्णकी शीशम का नाम । ] ( २) शिरीषवृक्षस्य नामत्रयम् । [शिरीषवृक्षके ३ नाम । ] (३) चम्पकस्य नामत्रयम् । [चम्पा के ३ नाम ।। (४) चम्पकलिकाया एक नाम । [ चम्पा की कली। (५) बकुलवृक्षस्य नामद्वयम् । | मौलसिरी के २ नाम । ] ( ६ ) अशोकवृक्षस्य नामद्वयम् । [ अशोक के २ नाम । ] (७) दाडिमस्य नामद्वयम् । [ दाडिम ( अनार ) के २ नाम । ] ( ८) चाम्पेयस्य नामचतुष्टयम् । [ नागचम्पा के ४ नाम । (०.) वैजयन्तिकाया पञ्च नामानि । [ अरणी के ५ नाम । ] ( १० ) अग्निमन्थस्य पञ्च नामानि । [अगेथु के ५ नाम । (११) कुटजस्य चत्वारि नामानि । [ कुरैया के ४ नाम । ] (१२) कुटजबीजस्य नामत्रयम् । [ इन्द्रजौ के ३ नाम ] (१३) कृष्यपाकफलाया: चत्वारि नामानि । [ करौंदा के ४ नाम । [ (१४) तमालवृक्षस्य नामत्रयम् । [ तमालवृक्ष के ३ नाम ! ] (१५) सिन्दुवारस्य पञ्च नामानि । [ मेवड़ी (सिंवाली) के ५ नाम । ] (१६) देवतालस्य पञ्च नामामि । [देवताल के ५ नाम ।] ( १७ ) श्रीहस्तिन्या नामद्वयम् । [ भूरुण्डी के २ नाम । ] ( १८ ) मल्लिकायाश्चत्वारि नामानि । [बेला के ४ नाम । ] ( १९) वनमल्लिकाया एकं नाम । [ जंगली वेला।]
For Private and Personal Use Only