________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यवर्गः ६ ]
रत्नप्रभाव्याख्यासमेतः
१०५
'स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः॥७५ ॥
भगं योनियोः, शिश्नो मेढ़ो मेहनशेफसी। "मुष्कोऽण्डकोशो वृषणः, 'पृष्ठवंशाधरे त्रिकम् ॥७६ ॥ "पिचण्डकुक्षी जठरोदरं तुन्दं, 'स्तनौ कुचौ। "चूचकन्तु कुचागं स्यान ना १°क्रोडं भुजान्तरम् ॥ ७७॥ ११उरो वत्सं च वक्षश्च, १२पृष्ठन्तु चरमं तनोः। १३स्कन्धो भुजशिरों सोऽस्त्री, ४सन्धी तस्यैव जत्रुणी ॥७८ ॥ १५बाहुमूले उभौ कक्षौ, १६पार्श्वमस्त्री, तयोरधः । १७मध्यमञ्चावलग्नञ्च मध्योऽस्त्री, द्वौ परौ द्वयोः॥ ७९ ॥ १"भुजबाहू प्रवेष्टो दोः, १ स्यात्कफोणिस्तु कूपरः। २°अस्योपरि प्रगण्डः स्यात् "प्रकोष्ठस्तस्य चाप्यधः ॥ ८० ॥ २२मणिबन्धादाकनिष्ठं करस्य करभो बहिः।
( १ ) कटिस्थमांसपिण्डयोढे नामनी । [ फीच । ] ( २ ) स्त्रीपुंसयोश्चिह्नविशेषयो मैकम् । ['उपस्थ ' ।] ( ३ ) स्त्रीयोनेर्नामद्वयम् । [ भग के २ नाम ।] (४) पुरुषलिङ्गस्य नामचतुष्टयम् । [ पुरुषलिंग के ४ नाम । ] (५) अण्डकोशस्य त्रीणि नामानि । [ अण्डकोश के ३ नाम । ] ( ६ ) पृष्ठवंशस्याधोभागस्यकम् । [त्रिक । ] (७) उदरस्य पञ्च नामानि । [ पेट के ५ नाम । ] (८) स्तनयो मद्वयम् । [ स्तनों के २ नाम । ] ( ९) स्तनाग्रभागस्य नामद्वयम् । [ चूचुक के २ नाम । ] ( १० ) क्रोडस्य द्वे नामनी। [ गोद के २ नाम । ] ( ११ ) उरसो नामद्वयम् । [छाती के ३ नाम । ] ( १२ ) पृष्ठस्यकम् । [पीठ] ( १३ ) स्कन्धस्य नाम त्रयम् । [ कन्धा के ३ नाम । । (१४ ) स्कन्धस्य सन्धिर्जत्रु कथ्यते । [जत्रु, हँसुली । ] ( १५ ) कक्षस्य नामद्वयम् । [ बगल, काँख के २ नाम । ] ( १६ ) कक्षयोरधः प्रदेशस्यकम् । [ पसली। ] ( १७ ) शरीरमध्यभागस्य त्रीणि नामानि । शरीर के मध्यमाग के ३ नाम । (१८) भुजस्य चत्वारि नामानि । [ बाँह के ४ नाम । ] ( १९ ) कूपरस्य नामद्वयम् । [ कुहनी के २ नाम । ] ( २० ) कूपरोपरिभागस्यकम् । [ कुहनी का ऊपरी भाग । ] (२१) कफोणेरधो मणिबन्धपर्यन्तभागस्यकम् । [ कफोणि से लेकर मणिबन्ध तक का भाग । ] ( २२ ) मणिबन्धादारभ्यकनिष्ठिकापर्यन्तहस्तबहिर्भागस्य । [ मणिबन्ध से लेकर कनिष्ठिका अंगुली पर्यन्त हाथ का बाहरी भाग । ]
For Private and Personal Use Only