________________
Shri Mahavir Jain Aradhana Kendra
१०४
अमरकोषः
६
"अङ्ग
'स्याच्छरीरास्थिन कङ्कालः, पृष्ठास्थिन तु कशेरुका । शिरोऽस्थनि करोटिः स्त्री, पावस्थानि तु पर्शुका ॥ ६९ ॥ प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥ कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः । पादाग्रं प्रपदं ' पादः पदङ्घ्रिचरणोऽस्त्रियाम् ॥ ७१ ॥ तद् ग्रन्थी घुटिके गुल्फौ, १० पुमान्पाष्णिस्तयोरधः । "जङ्गा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥
3
१
सक्थि क्लीबे १४ पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः । गुदं त्वपानं पायुर्ना, "बस्तिर्नाभिरधो द्वयोः ॥ ७३ ॥ कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ।
१
www.kobatirth.org
3
Acharya Shri Kailassagarsuri Gyanmandir
[ द्वितीयकाण्डे
'' पश्चान्नितम्ब स्त्रीकटयाः, "वलीबे तु जघनं पुरः ॥ ७४ ॥ २ कुपकौ तु नितम्बस्थौ द्वयहीने कुकुन्दरे ।
( १ ) कङ्कालस्यैकं नाम । [ अस्थिकंकाल | ] ( २ ) पृष्टास्थ्न एकं नाम । [ पीठ की हड्डी कशेरुका । ] ( ३ ) शिरोऽस्थ्नो नामद्वयम् । [ शिर की हड्डी के२ नाम | ] ( ४ ) पार्श्वास्थ्नो नामद्वयम् । [ पसली की हड्डी के २ नाम । ] ( ५ ) शरीरावयवस्य चत्वारि नामानि । | शरीर अववय के ४ नाम । ] ( ६ ) शरीरस्यैकादश नामानि । [ शरीर के ११ नाम । ] ( ७ ) पादाग्रस्य नामद्वयम् [ पैर के पंजा के ३ नाम । ] ( ८ ) चरणस्य चत्वारि नामानि । [ पैर के ४ नाम | ] ( ९ ) चरणग्रन्थ्योर्नामद्वयम् । [ घुटना के २ नाम । ] ( १०) पाणिभागस्यैकम् | [ एड़ी | ] ( ११ ) जङ्घायाः नामद्वयम् । [ जांघ के २ नाम । ] ( १२ ) जानूरुसन्धेस्त्रीणि नामानि । [ जानु तथा ऊरु सन्धि के २ नाम | | ( १३ ) जानूपरिभागस्य नामद्वयम् । [ जानु के ऊपरी भाग के २ नाम । ] ( १४ ) ऊरुसन्धेरेकम् | [ ऊरुसन्धि । ] ( १५ ) गुदस्य नामत्रयम् । [ गुद के ३ नाम | ] ( १६ ) नाभ्यधोभागस्यैकं नाम । [ बस्ति । ] ( १७ ) कटिभागस्य त्रीणि । [ कमर के ३ नाम । ] ( १८ ) स्त्रीकट्याः पश्चाद्भागस्यैकं नाम 'नितम्ब : ' [ नितम्ब, चूतड़ । ] ( १९ ) स्त्रीकट्याः पुरोभागस्यैकं नाम 'जघनम्' । [ जघन । ] ( २० ) पृष्ठवंशादधोगर्तयोरेकं नाम । [ पीठ का निचला भाग । ]
For Private and Personal Use Only