________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वनौषधिवर्गः ४ ]
रत्नप्रभाव्याख्यासमेतः
७७
'आस्फोटा गिरिको स्याद्विष्णुक्रान्ता-ऽपराजिता। इक्षुगन्धा तु काण्डेक्षु-कोकिलाक्षे-क्षुर-क्षुराः ॥ १०४ ॥ शालेयः स्याच्छीतशिवश्छत्वा मधुरिका मिसिः । मिश्रेयोप्यथ 'सीहुण्डो वज्रदुःस्नुक्स्नुही गुडा ॥ १०५ ॥ समन्तदुग्धाऽथो "वेल्लममोघा चित्रतण्डुला । तण्डुलश्च कृमिघ्नश्च विडङ्गं पुनपुंसकम् ॥ १०६ ॥ बला वाट्यालको, घण्टारवा तु शणपुष्पिका। 'मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ॥ १०७॥ 'सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । त्रिभण्डो रोचनी, श्यामा-पालिन्द्यौ तुसुषेणिका॥ १०८॥
काला मसूरविदला-ऽर्धचन्द्रा कालमेषिका । १"मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ॥ १०९ ॥ १२विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या[5]सिता। १३अन्या क्षीरविदारी स्यान्महाश्वेत-संगन्धिका ॥ ११० ॥ १४लाङ्गली शारदी तोयपिप्पली शकुलादनो।
( १ ) अपराजितायाश्चत्वारि नामानि । [विष्णुक्रान्ता, कोयल के ४ नाम ।] (२) कोकिलाक्षस्य पञ्च नामानि । [ तालमखाना, कमलगट्टा के ५ नाम । ] ( ३ ) मधुरिकायाः षड्नामानि । शिवश्छत्रायाः स्थाने सितच्छत्रेति पाठभेदः । [ सौंफ के ६ नाम । ] ( ४ ) स्नुह्याः षड्नामानि । तत्र सीहुण्ड:-सेहुण्डश्च पाठभेदः । [ थूहर, सेहुण्ड, (स्यून) के ६ नाम । ] ( ५ ) विडङ्गस्य षड् नामानि । [ वायविडंग, के ६ नाम । ] (६) बलाया नामद्वयम् । [ बला, बरिआरा, खिरेंटी के २ नाम । ] (७) शणपुष्पिकाया नामद्वयम् । [ सनई, सन, शण के २ नाम । ] ( ८ ) द्राक्षायाः पञ्च नामानि । [ मुनक्का, दाख के ५ नाम । ] (९) त्रिवृतायाः सप्त नामानि । [ निसोथ के ७ नाम । ] ( १० ) सुवेणिकायाः सप्तनामानि। [कालीनिसोथ के ७ नाम ।] ( ११ ) मधुयष्टिकायाश्चत्वारि नामानि । [ मुलेठी के ४ नाम ] ( १२ ) विदार्याश्चत्वारि नामानि । [ विदारीकन्द, बिलाईकन्द, (विरोउआ) के ४ नाम । ] ( १३ ) कृष्णविदार्यास्त्रीणि नामानि । [ काला विदारीकन्द के ३ नाम । ] ( १४ ) तोयपिप्पल्याश्चत्वारि नामानि । [ जलपीपल के ४ नाम।]
For Private and Personal Use Only