________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
अमरकोषः
[ द्वितीयकाण्डे 'सरटः .कृकलासः स्यान्मुसली गृहगोधिका ॥१२॥ लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः। नीलङ्गस्तु कृमिः, "कर्णजलौकाः शतपयुभे ॥१३॥ 'वृश्चिकः शूककोटः स्यादलिद्रोणौ तु वृश्चिके । 'पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥ पत्त्री श्येन, १°उलूके तु वायसारातिपेचकौ । [दिवान्धः काशिको घूको दिवाभीतो निशाटनः ] १'व्याघ्राटः स्याद्भरद्वाजः, "खञ्जरीटस्तु खञ्जनः ॥ १५ ॥ १३लोहपृष्ठस्तु कङ्कः स्यादथ १'चाषः किकीदिविः । १"कलिङ्गभृङ्गधूम्याटा, अथ "स्याच्छतपत्रकः ॥ १६ ॥ दाघाटोऽथ १७सारङ्गः स्तोककश्चातकः समाः। "कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥ १९चटकः कलविङ्कः स्यात्तस्य स्त्री चटका, तयोः ।
( १ ) सरटस्य नामयम् । [ गिरगिट के २ नाम । ] ( २ ) गृहगोधिकाया नामद्वयम् । [छिपकली के २ नाम । ] ( ३ ) तन्तुवायस्य चत्वारि नामानि । [ मकड़ी के ४ नाम । ] ( ४ ) नीलङ्गो मद्वयम् । [ सोनकीडा के २ नाम । ] (५) शतपद्या नामद्वयम् । [ कनखजर के २ नाम । 1 ( ६ ) शककीटस्य नामद्वयम् ।। ऊन को खाने वाला कृमि के २ नाम । ] ( ७) वृश्चिकस्य नामत्रयम् । तत्र द्रोणः, द्रुण: अपि। [विच्छू के ३ नाम । ] ( ८ ) पागवतस्य त्रीणि नामानि । [ कबूतर के ३ नाम । ] (९) श्येनस्य नामत्रयम् । [ बाज के ३ नाम।] (१० ) उलूकस्याष्टौ नामानि । [ उल्ल के ८ नाम । ] ( ११) व्याघ्राटस्य नामद्वयम् । [ भरदुआ के २ नाम । ] ( १२ ) खञ्जनस्य नामद्वयम् । [खञ्जन पक्षी के २ नाम । (१३ ) कङ्कस्य नामद्वयम् ।। कंकपक्षी के २ नाम । ] ( १४ ) चाषस्य नामद्वयम् । [ चाष के २ नाम । ] ( १५) कलिङ्गस्य नामद्वयम् । [ कलिङ्ग के २ नाम । ] ( १६ ) काष्ठकुदृस्य नामद्वयम् । [ कठफोड़वा के २ नाम । ] ( १७ ) चातकस्य नामत्रयम् । [ पपीहा के ३ नाम । ] ( १८ ) कुक्कुटस्य नामचतुष्टयम् । [ मुर्गा के ४ नाम । ] ( १९) चटकस्य नामद्वयम् । [ गौरेया के २ नाम । ] ( २० ) चटकाया एकं नाम । [ चिड़ी ( गौरेया की स्त्री )।]
For Private and Personal Use Only