________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यवर्गः ६ ] रत्नप्रभाव्याख्यासमेतः 'वीरपत्नी वीरभार्या, 'वीरमाता तु वीरसूः ।
जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥१६॥ ४स्त्री नग्निका कोटवी स्याद् दूती सञ्चारिके समे। कात्यायन्यर्धवृद्धा या काषायवसनाऽधवा ॥१७॥ "सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका । 'असिक्नी स्यादवृद्धा या प्रेष्याऽन्तःपुरचारिणी ॥१८॥ 'वारस्त्री गणिका वेश्या रूपाजीवाऽथ सा जनैः । १°सत्कृता वारमुख्या स्यात् १'कुट्टनी शम्भली समे ॥ १९ ॥ १२विप्रश्निका त्वीक्षणिका दैवज्ञाऽथ १३रजस्वला । , स्त्रीमिण्य विरात्रेयी मलिनी पुष्पवत्यपि ॥२०॥
ऋतुमत्यप्युदक्यापि १४स्याद्रजः पुष्पमार्तवम्। १५श्रद्धालुर्दोहदवती, निष्कला विगतार्तवा ॥ २१ ॥
(१) वीरस्य भार्याया नामद्वयम् । [वीर पुरुष की स्त्रो के २ नाम । ] (२) वीरस्य मातुर्नामद्वयम् । [वीर की माता के २ नाम । ] ( ३ ) प्रसूतायाश्चत्वारि नामानि । [ प्रसूता स्त्री के ४ नाम । ] ( ४ ) नग्नाया नामद्वयम् । [नंगी स्त्री के २ नाम । ] (५) दूत्या नामद्वयम् । [दूती के २ नाम ।] (६) कषायवस्त्रधारिण्या अर्थवृद्धाया विधवाया नाम कात्यायनी । (७) सैरन्ध्रया नाम । 'कात्यः' सैरन्ध्रो विवरणमित्थमुपपादयति
'चतुःषष्टि कलाऽभिज्ञा रूपशीलादिशालिनी।
प्रसाधनोपचारशा सैरन्ध्री परिकीर्तिता' ॥ इति । [ सैरन्ध्री, अदासी । ] (८) अन्तःपुरचारिण्या एकं नाम ‘असिक्नो' । [ अन्तःपुर में जाने वाली युवती दूती का नाम 'असिक्नो' है। ] ( ९) वेश्यायाश्चत्वारि नामानि । [ वेश्या के ४ नाम । ] ( १० ) आइताया वेश्या एकं नाम । [ समाज द्वारा सम्मानित वेश्या का नाम 'वारमुख्या' । ] ( ११) कुट्टिन्या नामद्वयम् । [ कुट्टिनी के २ नाम । ] ( १२) दैवज्ञायास्त्रीणि नामानि । [ ज्योतिषज्ञ स्त्री के ३ नाम । ] ( १३ ) रजस्वलाया अष्टो नामानि । [ रजस्वला स्त्री के ८ नाम । ] ( १४) आर्तवस्य नामत्रयम् । [ रजस् के २ नाम । ] ( १५ ) दोहदवत्या नामद्वयम् । [ गर्भ के कारण कुछ इच्छा वाली स्त्रो के २ नाम । ] ( १६ ) विगतार्तवाया नामद्वयम् । [ मासिक धर्म से रहित स्त्री के २ नाम । ]
For Private and Personal Use Only