________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[ द्वितीयकाण्डे 'मातुर्मातामहाद्येवं, सपिण्डास्तु सनाभयः॥ ३३ ॥ समानोदर्य-सोदर्य-सगर्य-सहजाः समाः । सगोत्र-बान्धव-ज्ञाति-बन्धु-स्व-स्वजनाः समाः ॥ ३४ ॥ "ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः । 'धवः प्रियः पतिर्भा, जारस्तूपपतिः समौ ॥ ३५ ॥ 'अमृते जारजः कुण्डो, 'मृते भर्तरि गोलकः । १°भ्रात्रीयो भ्रातृजो, "भ्रातृभगिन्यौ भ्रातरावुभौ ॥३६॥ "मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ। १ श्वश्रूश्वशुरौ श्वशुरौ, पुत्रौ पुत्रश्च दुहिता च ॥ ३७॥ १५दम्पती जम्पती जायापती भार्यापती च तौ। १६गर्भाशयो जरायुः स्यादुल्बं च १७कललोऽस्त्रियाम् ॥ ३८ ॥ "सूतिमासो वैजननो, १९गर्भो भ्रूण इमौ समौ ।
(१) एवं पितामह प्रपितामहवत्, मातुः पिता मातामहः । [ नाना । ] मातामहस्य पिता प्रमातामहः । [ परनाना।] (२) सपिण्डानामेकम् । [विरादर । ] ( ३ ) सहोदराणा षड् नामानि । [ सहोदर भाइयों के ६ नाम । ] ( ४ ) सगोत्राणां षड् नामानि । [ गोतिया के ६ नाम । ] ( ५ ) बन्धुसमूहस्यकं नाम । [ बन्धुता। ] ( ६ ) पत्युश्चत्वारि नामानि । [ पति के ४ नाम । ] ( ७ ) उपपत्युर्नामद्वयम् । [ जार, यार के २ नाम । ] ( ८ ) भर्तरि जीवति जारजपुत्रस्यक नाम । [ जारज पुत्र ‘कुण्ड' ] । (९) भर्तरि मृते जातस्य जारजपुत्रस्यैकं नाम । [जारज पुत्र ‘गोलक' । ] ( १० ) भ्रातृजस्य नामद्वयम् । [ भतीजा के २ नाम । ] ( ११ ) भ्रातृमगिन्योर्नामद्वयम् । [ भाई-बहिन के २ नाम । ] ( १२ ) मातापित्रो मचतुष्टयम् । [ माता पिता के ४ नाम । ] ( १३ ) श्वश्रूश्वशुरयो मद्वयम् । [सास-ससुर के २ नाम । ] ( १४ ) पुत्रकन्ययो
र्नामद्वयम् । [ पुत्र-कन्या के २ नाम । ] (१५) पतिपल्योश्चत्वारि नामानि । [ पति-पत्नी के ४ नाम । ] ( १६ ) गर्भाशयस्य नामद्वयम् । [ गर्भाशय के २ नाम । ] ( १७ ) शुक्रशोणितसम्पातस्य चत्वारि । केचिद् गर्भवेष्टनस्येति । [ कलल के ४ नाम । ] ( १८ ) सूतिमासस्य । [ प्रसव का (१० वाँ) महीना। ] ( १९ ) कुक्षिस्थगर्भस्य नामद्वयम् । [ गर्भ के २ नाम । ]
For Private and Personal Use Only