________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाटयवर्ग: ७] रत्नप्रभाव्याख्यासमेतः
'अम्बा माताऽथ बाला स्याहासूरार्यस्तु 'मारिषः ॥ १४ ॥
अत्तिका भगिनी ज्येष्ठा, निष्ठा-निर्वहणे समे। 'हण्डे-हओ-हलाह्याने नीचां चेटों सखी प्रति ॥ १५ ॥ "अङ्गहारोऽङ्गविक्षेपो, 'व्यञ्जकाऽभिनयौ समौ । 'निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके ।। १६ । १°शृङ्गार-वीर-करुणा-ऽद्धत-हास्य-भयानकाः ।
बीभत्स-रौद्रौ च रसाः, "शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥ १२उत्साहवर्द्धनो वीरः, कारुण्यं करुणा घृणा।
कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥१८॥ हासो हास्यञ्च, बीभत्सं विकृतं त्रिष्विदं द्वयम् । "विस्मयोऽद्भतमाश्वयं चित्रमप्यथ" भैरवम् ॥ १९ ॥
दारुणं भीषणं भोमं घोरं भीमं भयानकम् । ( १ ) मातुः एकं नाम । [ माता। ] ( २) बालाया वासूरिति नाम । [ बाला । ] ( ३ ) नाटये मान्यस्यैकम् । [ नाटय में आदरणीय को मारिष कहते हैं । ] ( ४ ) ज्येष्ठभगिन्या नाम । [ नाटय में बड़ी बहन को अत्तिका कहते हैं । ] ( ५ ) निर्वहणाभिधसन्धेर्दै नामनी नाट्ये । [ निबहजाना, पूरा होना । ] ( ६ ) नाटके नीचाया आह्वाने हण्डे, चेटया आह्नाने हजे, सख्या आह्नाने हला, इति [ हण्डे, हजे, हला ये क्रमशः नीच, चेटी और सखी को बुलाने के शब्द हैं । ] (७) नृत्यविशेषस्य द्वे नामनी । [ अङ्गहार नामक नृत्य के २ नाम । ] ( ८ ) हृद्गतभावाभिव्यञ्जकस्य द्वे नामनी। [ अभिनय के २ नाम । ] ( ९) अङ्गनिष्पन्नं भ्रूविक्षेपादिकम् आङ्गिकम् । सत्येन कृतं स्वेदरोमाञ्चादिकम् सात्विकम् । [आंगिक और सात्त्विक भावों के नाम ।] (१०) शृङ्गारादिरसानामेकैकं नाम । [ शृंगार, वीर, करुण, अद्भुत, हास्य, भयानक, बीभत्स,
रौद्र, ये ८ रसों के नाम हैं । ] ( ११ ) त्रीणि शृङ्गाररस्य नामानि । [ शृंगार रस के ३ नाम । ] ( १२ ) वीररसस्य द्वे नामनी। [ वीररस के २ नाम ।] (१३) करुणरसस्य सप्त नामानि । [ करुणरस के ७ नाम । ] (१४) हास्यरसस्य त्रीणि नामानि । [ हास्य रस के ३ नाम । ] ( १५ ) द्वे बीभत्सरसस्य नामनी त्रषु । [ बीभत्सरस के २ नाम ] ( १६ ) अद्भुतरसस्य चत्वारि नामानि त्रिषु लिङ्गेषु । [ अद्भुतरस के ४ नाम ] ( १७ ) भयानकरसस्य नव नामानि । [ भयानक रस के ९ नाम ।]
For Private and Personal Use Only