________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७
नाट्यवर्गः ७ ] रत्नप्रभाव्याख्यासमेतः
ततं 'वीणादिकं वाद्यमानेद्धं मुरजादिकम् । 'वंशादिकं तु सुषिरं, कांस्यतालादिकं घनम् ॥ ४॥ 'चतुर्विधमिदं वाद्यं वादित्राऽतोद्यनामकम् ।
मृदङ्गा मुरजा भेदास्त्वकचालिङ्गयोर्ध्वकास्त्रयः॥५॥ 'स्याद्यशःपटहो ढक्का, भेरी स्त्री दुन्दुभिः पुमान् । १°आनकः पटहोऽस्त्री "स्यात्कोणो वीणादिवादनम् ॥ ६॥ १२वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः । १४कोलम्बकस्तु कायोऽस्या १५उपनाहो निबन्धनम् ॥७॥ १६वाद्यप्रभेदा डमरु-मड्डु-डिण्डिम-झर्झराः। मर्दलः पणवोऽन्ये च ५७नर्तको-लासिके समे॥८॥
( १ ) वीणादिकं वाद्यं ततमिति कथ्यते । [ वीणा आदि वाद्य का नाम 'तत' है । ] ( २ ) मुरजादिवाद्यम् आनद्धं कथ्यते । [ तबला । ] ( ३ ) एकं वंशादिवाद्यस्य । [ वंशी आदि का नाम । ] ( ४ ) कांस्यतालादेरेकं नाम । [ मंजीरा । ] ( ५ ) चतुर्विधवाद्यस्य त्रीणि नामानि । [बाजा के ३ नाम ।] (६) मृदङ्गस्य नामद्वयम् । [मृदङ्ग के २ नाम 1] (७) वाद्यभेदस्यकैकं नाम । तद्यथा
'हरीतक्याऽऽकृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः ।
आलिङ्गयश्चैव गोपुच्छो मध्यदक्षिणवामगाः' ।। इति । [ हरीतकी के आकार का त्वङ्क्य वाद्य, जौ जैसा ऊर्ध्वक वाद्य और गाय की पूँछ के सदृश आलिङ्गय वाद्य होता है । ] (८) यशः पटहस्य द्वे नामनी । [ डुगडुगी के २ नाम ।] ( ९ ) भेर्या नामद्वयम् । [ भेरी (नगाड़ा) के २ नाम । ] (१०) पटहस्य द्वे नामनी । [ पटह ( तासा) के २ नाम । ] ( ११ ) वीणावादनार्थनिर्मितधनुषो द्वे नामनी। [ सारंगी बजाने का धनुषाकार डंडा के २ नाम । ] ( १२ ) द्वे वीणादण्डस्य । [ वीणादण्ड के २ नाम । ] ( १३ ) वीणाया अधस्थितचर्मबद्धदारुभाण्डस्यकम् । [ वीणा के नीचे चमड़े से बंधे हुए लकड़ी के पात्र का नाम । ] ( १४ ) तन्त्रीरहितवीणाशरीरस्यैकम् । [ बिना तार की वीणा ।] ( १५ ) तन्त्रीनिबन्धनोलभागस्यकम् । [वीणा के तार बाँधने की ऊपरी खूटी।] ( १६ ) वाद्यविशेषाणाम् एकैकं नाम । [ वाद्यविशेषों के १-१ नाम । ] (१७) नर्तक्या द्वे नामनी । [ नाचने वाली स्त्री के २ नाम । ]
For Private and Personal Use Only