________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिवर्गः १] रत्नप्रभाव्याख्यासमेतः
'लोकोऽयं भारतं वर्ष, शरावत्यास्तु योऽवधेः-॥६॥ देशः प्रारदक्षिणः प्राच्य, उदीच्यः पश्चिमोत्तरः। *प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः ॥७॥
आर्यावर्तः पुण्यभूमिमध्यं विन्ध्यहिमालयोः । "नीवृज्जनपदो, 'देशविषयौ तूपवर्तनम् ॥ ८॥ 'त्रिष्वागोष्ठान् १°नडप्राये नड्वान्नड्वल इत्यपि । १ 'कुमुद्वान् कुमुदप्राये, वेतस्वान् बहुवेतसे ॥९॥ १३शाद्वलः शादहरिते, १४सजम्बाले तु पङ्किलः।
(१) भारतवर्षस्यक नाम । [ भारतवर्ष का १ नाम । ] (२) शरावत्या ( राप्तो) अवधेर्यः प्राग्दक्षिणो देशः स प्राच्यः । [ राप्ती नदी के पूर्व-दक्षिण तक की सीमा वाले देश को प्राच्य कहते हैं । ] ( ३ ) शरावत्या अवधेः पाश्चिमोत्तरो देशः 'उदीच्य' इति । [राप्ती नदी के पश्चिम-उत्तर तक की सीमा वाले देश को 'उदीच्य' कहते हैं । ] ( ४ ) शिष्टाचाररहितस्य खशादिदेशस्य नामद्वयम् । तद्--- ___ यथा-'चातुवर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते ।
___ तं म्लेच्छविषयं प्राहुराविर्तमतः परम् ॥ [ 'म्लेच्छ, ( खश ) देश के २ नाम । ] (५) मध्यदेशस्य नामद्वयम् । यथाह मनुः
_ 'हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेश: प्रकीर्तितः' ।। इति । विनशनं, कुरुक्षेत्रम् । [ मध्यदेश के २ नाम । ] ( ६ ) हिमालयविन्ध्यमध्यवर्ति देशस्य नामद्वयम् । [ आर्यावर्त के २ नाम । ] (७) जनपदस्य द्वे नामनी। [ जनपद ( जिला ) के २ नाम । ] ( ८) ग्रामसमुदायलक्षणस्य स्थानमात्रस्य । [ ग्राम समुदाय का नाम । ] ( ९) गोष्ठशब्दमभिव्याप्यशब्दाःत्रिषु प्रयुज्यन्ते । (१० ) नडाधिकप्रदेशस्य विष। [ अधिक नड वाले प्रदेश का नाम ।। ( ११ ) कुमुदाधिकप्रदेशस्य त्रिषु। [ अधिक कुमुद वाले प्रदेश का नाम । ] (१२ ) वेतसाधिकप्रदेशस्यकं त्रिषु । [ अधिक वेतस् वाले प्रदेश का नाम ।। (१३ ) शादहरितप्रदेशस्यकं त्रिषु । [ हरी घास वाले प्रदेश का नाम ।। ( १४ ) पङ्किलप्रदेशस्यकं नाम । [ कीचड़ प्रधान प्रदेश का नाम । ]
For Private and Personal Use Only