________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[प्रथमकाण्डे 'निकाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥२४॥ वीणायाः क्वणिते प्रादेः प्रक्वाण-प्रवणादयः । कोलाहलः कलकलस्तिरश्चा' वाशितं रुतम् ॥ २५ ॥ स्त्री प्रतिश्रुत्प्रतिध्वाने, गीतं गानमिमे समे।
इति शब्दादिवर्गः ॥ ६ ॥
७. अथ नाट्यवर्गः 'निषाद-र्षभ-गान्धार-षड्ज-मध्यम-धैवताः ॥
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥१॥ "काकली तु कले सूक्ष्मे, 'ध्वनौ तु मधुराऽस्फुटे । कलो, 'मन्द्रस्तु गम्भीरे, ''तारोऽत्युच्चैस्त्रयस्त्रिषु ॥२॥ [ नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः।
स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गोयते ॥] १२समन्वितलयस्त्वेकतालो, "वीणा तु वल्लको।
विपञ्ची, १४सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥३॥ ( १ ) वीणाया ध्वनेः सप्त नामानि। [ वीणा की तान के ७ नाम । ] (२) कोलाहलस्य द्वे नामनी। [ कोलाहल के २ नाम । ] ( ३) पक्षीणां शब्दस्यकम् । [ पक्षियों का कलरव । ] ( ४ ) प्रतिध्वनेः द्वे नामनी । [प्रतिध्वनि के २ नाम । ] ( ५ ) गीतस्य द्वे नामनी । [ गीत के २ नाम । ]
इति शब्दादिवर्गः।
( ६ ) निषादादिसप्तस्वराणामेकैक नाम । [ संगीत के सातस्वरों के १-१ नाम । ] ( ७ ) सूक्ष्मध्वनेरेकं नाम । [ सूक्ष्मध्वनि का नाम काकली। ] (८) अव्यक्तमधुरध्वने रेकम् । [ अव्यक्तमधुरध्वनि का नाम 'कल' । ] ( ९) गम्भीरशब्दस्यकं नाम । [ गम्भीरशब्द का नाम । ] (१०) उच्चशब्दस्यैकं नाम । [ ऊँचा शब्द । ] ( ११ ) कल, मन्द्र, तारशब्दास्त्रिषु लिङ्गेषु प्रयुज्यन्ते । [ कल मन्द्र तार शब्दों का प्रयोग तीनों लिंगों में होता है । ] ( १२ ) समन्वितगीतवाद्यलयस्यैकम् । [ समा बंधना । ] ( १३ ) वीणायास्त्रीणि नामानि । [ वीणा के ३ नाम ।] ( १४ ) सप्तभिस्तन्त्रीभिः समन्विताया वीणाया नामकम् । [ सितार । ]
For Private and Personal Use Only