________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
अमरकोषः
[प्रथमकाण्डे 'पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः।
यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम् ॥१४॥ तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति । "स्यादाभाषणमालापः 'प्रलापोऽनर्थकं वचः ॥ १५ ॥ अनुलापो मुहुर्भाषा, ‘विलापः परिदेवनम् ।
विप्रलापो विरोधोक्तिः, १°संलापो भाषणं मिथः ॥१६॥ १'सुप्रलापः सुवचनमपेलापस्तु निह्नवः । [चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा।
अस्त्री चाटु चटुश्लाघा प्रेम्णा मिथ्या विकत्थनम् ॥] पसंदेशवाग्वाचिकं स्याद् वाग्भेदास्तु विषूत्तरे ॥ १७ ॥ १५रुशती वागकल्याणी "स्यात्कल्या तु शुभात्मिका। १"अत्यर्थमधुरं सान्त्वं, “सङ्गतं हृदयङ्गमम् ॥ १८॥ १९निष्ठुरं परुषं २°ग्राम्यमश्लीलं, २१सूनृतं प्रिये।
( १ ) अप्रियभाषणस्य द्वे नामनी। [ अप्रियभाषण के २ नाम । ] ( २ ) विरस्कारपूर्णवचनस्य द्वे नामनी। [ झिड़कना के २ नाम । ] ( ३) सनिन्दपरिभाषणस्यकम् । [ उलहना । ] ( ४ ) भगिन्यादिमैथुनसम्बन्धिकाक्रोशस्यकम् । [माता बहिन सम्बन्धी गाली। ] (५) सम्भाषणस्य नामद्वयम् । [सम्भाषण के २ नाम । ] ( ६ ) व्यर्थवचनस्यैकम् । [ बेकार की बकबाद । ] ( ७ ) मुहुऔषणस्य द्वे नामनी। [बार बार बोलना के २ नाम । (८) परिदेवनस्य नामद्वयम् । [ विलाप के २ नाम । ] (९) विरुद्धवचनस्य नायद्वयम् । [ विरोध. पूर्ण वार्तालाप के २ नाम । ] ( १०) मिथ सम्भाषणस्यकम् । [ बातचीत । ] (११) सम्यग्भाषणस्य नामद्वयम् । सुन्दरमाषण के २ नाम । ] (१२) निह्नववचनस्य द्वे नामनो । [ बात से मुकर जाना के २ नाम । ] (१३) सन्देशवचनस्य द्वे नामनी। [ सन्देश । ] (१४) रुशत्यादयो वाग्भेदाः विष लिङ्गेष भवन्ति इति। [ रुशती आदि के रूप तीनों लिंगों में होते हैं । ] ( १५ ) अकल्याणकरवचनस्य द्वे नामनी । [ अशुभवचन के २ नाम । ( १६ ) शुभवचनस्य द्वे नामनी । | कल्याणकारकवचन के २ नाम । ] ( १७ ) सान्त्ववचनस्य त्रिषु । [ आश्वासन देना । ] ( १८ ) हृदयङ्गमशब्दस्य द्वे नामनी । [ प्रियवचन के २ नाम ] (१९) निष्ठुरवचनस्य नामद्वयम् त्रिषु । [ कठोरवचन के २ नाम । ] ( २० ) अश्लीलवचनस्य द्वे नामनी । [ लज्जाकर वचन के २ नाम । ] (२१) सत्यवचनस्य नामद्वयम् । [ सत्यवचन के २ नाम । ]
For Private and Personal Use Only