________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८. अथ पातालभोगिवर्गः 'अधोभुवन-पातालं बलिसा रसातलम् । नागलोकोऽथ 'कुहरं शुषिरं विवरं बिलम् ॥१॥ छिद्रं नियंथनं रोकं रन्ध्र श्वभ्रं वपा शुषिः। गर्ताऽवटौ भुवि श्वभ्रे, सरन्ध्र शुषिरं त्रिषु ॥२॥ "अन्धकारोऽस्त्रियां ध्वान्तं तमिस्र तिमिरं तमः।
ध्वान्ते गाढेऽन्धतमसं, क्षीणेऽवतमसं तमः॥३॥ 'विष्वक् सन्तमसं, नागाः काद्रवेयास्तदीश्वरः१० ।
शेषोऽनन्तो, ११वासुकिस्तु सर्पराजोऽथ १२गोनसे ॥४॥ तिलित्सः १३स्यादजगरे शयुर्वाहस इत्युभौ । १४अलगर्दो जलव्यालः, १५समौ राजिल-डुण्डुभौ ॥ ५॥ १'मालुधानो १७मातुलाहिनिर्मुक्तौ मुक्तकञ्चकः । १“सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६॥
(१) पातालस्य पञ्च नामानि । [पाताललोक के ५ नाम । (२) एकादशनामानि विलस्य । [ बिल के ११ नाम । ] ( ३ ) गर्तमात्रस्य नामद्वयम् । [ गड्ढा के २ नाम ] ( ४ ) रन्ध्रयुक्तस्यकं नाम [ छिद्रयुक्त । ] ( ५ ) अन्धकारस्य पञ्च नामानि । [ अन्धकार के ५ नाम । ] (६) गाढान्धकारस्यैकं नाम । [ घना अँधेरा । ] ( ७ ) क्षीणान्धकारस्यकं नाम । [ कम अँधेरा का नाम । ] (८) सर्वतोव्याप्ततमस एकम् । [ चारों ओर फैला अँधेरा का नाम । ] ( ९) फणालाङ्गलयक्तनराकारदेवयोनिविशेषनागानां नामद्वयम् । [फण और Jछ युक्त नराकार सर्पो के २ नाम । ] ( १० ) सर्पराजस्य नामद्वयम्। [ शेषनाग के २ नाम । ] ( ११) वासुकिसर्पस्य द्वे नामनी । [ वासुकि नाग के २ नाम । ] { १२) तिलित्साभिधसर्पविशेषस्य द्वे नामनी । [ तिलित्सनाग के २ नाम । ] ( १३ ) अजगरस्य नामत्रयम् । [ अजगर के ३ नाम । ] ( १४ ) जलव्यालस्य नामद्वयम् । [ पानी का साँप के २ नाम । ] ( १५ ) उभयमुखसर्पस्य नामद्वयम् । [ दुमुहा साँप के २ नाम । ] ( १६ ) चित्रवर्णयुक्तस्य सर्पस्य। [चितकबरा साँप ।] ( १७ ) निर्मुक्तकञ्चुकसर्पस्य नामद्वयम् । [ केचुली छोड़े हुए साँप के (२ नाम । ] १८ ) सर्पस्य त्रयस्त्रिशन्नामानि । [ साँप के ३३ नाम । ]
For Private and Personal Use Only