________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[प्रथमकाण्ड 'अस्त्री पङ्घ पुमान् पाप्मा पापं किल्विष-कल्मषम् । कलुषं वृजिनैनोऽघमंही दुरित-दुष्कृतम् ॥ २३ ॥ स्याद्धर्ममस्त्रियां पुण्य-श्रेयसी सुकृतं वृषः। 'मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽमोद-सम्मदाः॥ २४ ॥ स्यादानन्दथुरानन्दः- शर्म-शात-शुखानि च। ४श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं चाऽथ पत्रिषु द्रव्ये पापं पुण्यं सुखानि च ॥ २६ ॥ 'मतल्लिका मचिका प्रकाण्डमुद्ध-तल्लजौ।
प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥ 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः । "हेतुर्ना कारणं बीजं, १°निदानं त्वादिकारणम् ॥ २८ ॥ ११क्षेत्रज्ञ आत्मा पुरुषः, "प्रधानं प्रकृतिः स्त्रियाम् । १३विशेषः कालिकोऽवस्था, १४ गुणाःसत्त्वं रजस्तमः ॥ २९ ॥ १५जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः।
( १ ) द्वादशनामानि पापस्य । [पाप के १२ नाम । ] ( २ ) पुण्यस्य पञ्च नामानि । [ पुण्य के ५ नाम । ] ( ३ ) हर्षस्य द्वादश नामानि । [ हर्ष के १२ नाम । ] ( ४ ) कल्याणस्य द्वादश नामानि । [ कल्याण के १२ नाम । ] (५) पापादयः शब्दाः द्रव्ये प्रयज्यमाना विशेष्यलिङ्गमा भवन्ति । यथा-पापा पुरुषः । पापा प्रतीपदर्शिनी। पापं कर्म। [पाप, पुण्य, सुख के नाम ।। ( ६ ) प्रशस्तवाचकानि पञ्च शब्दाः । [५ प्रशंसावाचक शब्द । ] ( ७ ) शुभप्रदविधेरेकं नाम । [शुभप्रदविधि का १ नाम । ] ( ८) भागधेयस्य षड् नामानि । [भाग्य के ६ नाम । ](९) कारणस्य त्रीणि नामानि । कारण के ३ नाम ।। (१०) आदिकारणं निदानं कथ्यते तस्यकं नाम । [ निदान का १ नाम ।] (११) आत्मनो नामानि त्रीणि। [ आत्मा के ३ नाम । ] ( १२) प्रकृतेर्नामद्वयम् । [ प्रकृति के २ नाम । ] ( १३) कालकृतविशेषस्य नामकम् अवस्था । [विशेष परिस्थिति का १ नाम । ] ( १४ ) रजः तमः सत्वञ्च एते गुणाः । अदन्तावपि रज-तमशब्दौ पुंसि प्रयुज्यते । [सत्व, रज, तम इनको गुण कहते हैं । ] (१५) जन्मनः षड्-नामानि । अदन्तोऽपि जन्मशब्दः । [ जन्म के ६ नाम । ]
For Private and Personal Use Only