________________ 52 अभिज्ञानशाकुन्तलम् [प्रथमो शकुन्तला-अदो जेव तुमं पिअंवद त्ति भणीअसि / [अत एव त्वं 'प्रियंवदेति भण्यसे।। .. राजा-अवितथमाह प्रियंवदा / तथा ह्यस्याःअधरः किसलयरागः, कोमलविटपाऽनुकारिणौ बाहू / कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् // 22 // शकुन्तलया, समीपे = निकटे, स्थितया = व्यवस्थितया, लतया सनाथ इव = वल्लीपरिवृत इव, चूत वृक्षकः = रसालबालपादपः, प्रतिभाति = ज्ञायते / अत एव = मधुरभाषितया, प्रियं वदतीति-प्रियंवदा, भण्यसे = गीयसे / अन्वर्थ नाम भवत्या इत्यर्थः। अवितथं = सत्यं / तथा = यथा प्रियंवदयोक्त तथैव / अस्याः = शकुन्तलायाः / अस्याग्रिमश्लोकेम सह सम्बन्धः / अधर इति। अस्याः-अधरः = अधरोष्ठः, किसलयस्येव = पल्लवस्येव, रागो = लौहित्यं यस्य तथाभूतः / कोमलं विटपमनुकुरुतस्तच्छीलौ-कोमलविटपानुकरिणौ = मृदुतरशाखानुकारिणौ, बाहू = भुजौ, कुसुममिव = पुष्पमिव-च, लोभनीयं = हृदयावर्जकं, यौवनं = तारुण्यम्, अङ्गेषु = अवयवेषु, सन्नद्धं = संभृतं, सर्वतोभावेन प्रकटितं, स्थितं वा / एवञ्चाऽस्या लतासादृश्यं प्रियवदोक्तं युज्यत एवेत्याशयः। [ उपमाऽलङ्कारः 'सञ्चयोऽर्थानुरूपो यः स पदानां पदोच्चयः' इति दर्पणोक्त्या पदोच्चयो नाम नाटकलक्षणञ्च ज्ञेयम् ] // 22 // शकुन्तला-अरी सखि ! तूं मीठा बोलना बहुत जानती है, इसीलिए तो तुं प्रियंवदा कहलाती है। अर्थात् तूं तो मेरो सुन्दरता की इस प्रकार प्रशंसा कर रही है। राजा-प्रियंवदा तो बिलकुल सत्य कह रही है / क्योंकि इस शकुन्तला का अधरोष्ठ तो कोमल पत्तों की तरह है और इसकी दोनों भुजाएं कोमल 2 डालियों के समान मालूम होती हैं, इसके अङ्गों में लुभावना यौवन भी खिले हुए फूलों की तरह मालूम होता है / अतः यह बाला लता की तरह स्पष्ट ही मालूम होती है // 22 // 1 'अदोक्खु पिअंवदासि तुमं'। [ अतः खलु प्रियंवदाऽसि त्वम् ] / 2 'प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा' /